मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| सप्तत्रिंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - सप्तत्रिंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र सप्तत्रिंशः स्तबकः Translation - भाषांतर तत्त्वविचारः (अनुष्टुब्वृत्तम्)उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् ।तत्त्वं यस्य महस्सूक्ष्ममानन्दो वेति संशयः ॥१॥पूर्णं प्रज्ञातृ सद्ब्रह्म तस्य ज्ञानं महेश्वरी ।महिमा तेज आहोस्विच्छक्तिर्वा प्राण एव वा ॥२॥प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः ।प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥३॥चित एकपदार्थत्वाच्चिच्चिता न विशिष्यते ।तस्माद् गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥४॥ज्ञातुर्ज्ञानं स्वरूपं स्यान्न गुणो नापि च क्रिया ।यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ॥५॥वाचैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः ।नानुभूत्या ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥६॥ब्रह्मज्ञानस्य पूर्णस्य विषयो द्यौरुदीर्यते ।सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते ॥७॥विकासादपि सङ्कोचात् सर्गप्रलययोर्द्वयोः ।प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ॥८॥धर्मभूतं परस्येदं न कार्यं परमं नभः ।अखण्डत्वान्न विकृतिर्विश्वस्मिन्नप्रकृतित्वतः ॥९॥आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः ।एकाग्रत्वात्प्रवृद्धोष्मगभीरमभवन्महः ॥१०॥त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना ।शुद्धत्वविषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥११॥विज्ञाने भाति ये भान्ति भावा द्रव्यगुणादयः ।न किञ्चिदनुभूयन्ते विज्ञानोपरमे तु ते ॥१२॥एवं स्वतः प्रकाशत्वं विषयाणां न दृश्यते ।सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥१३॥दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः ।प्रज्ञाविषयतादात्म्यमेवं साक्षात्प्रदृश्यते ॥१४॥न चेत्समष्टिविज्ञानविभूतिरखिलं जगत् ।विषयव्यष्टिविज्ञानतादात्म्यं नोपपद्यते ॥१५॥यथाऽस्मदादिविज्ञाने ध्येयं बुद्धिरिति द्वयम् ।पूर्णे समष्टिविज्ञाने विकृतिः प्रकृतिस्तथा ॥१६॥परिणामो यथा स्वप्नः सूक्ष्मस्य स्थूलरूपतः ।जाग्रत्प्रपञ्च एष स्यात्तथेश्वरमहाचितः ॥१७॥विकृतिस्सर्वभूतानि प्रकृतिः परदेवता ।सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥१८॥कबलीकृत्य सङ्कल्पानेकाऽपि स्याद्यथा मतिः ।भूतानि कबलीकृत्य देवताऽपि तथा परा ॥१९॥भूतानामात्मानस्सर्गे संहृतौ च तथाऽऽत्मनि ।प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथा मतिः ॥२०॥अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा ।आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥२१॥सूक्ष्मस्थूले ततः शाखे विद्युच्छक्तिसमीरवत् ।तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥२२॥ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह ।कर्मेन्द्रियाणि त्वपरा विभूतिस्सहसा सह ॥२३॥क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् ।आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ॥२४॥गभीरास्सुतरामेताः कालिकातत्त्वकारिकाः ।धियो भासो गणपतेर्भवन्तु विदुषां मुदे ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP