मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| षट्त्रिंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - षट्त्रिंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र षट्त्रिंशः स्तबकः Translation - भाषांतर प्रकीर्णकम् (तूणकवृत्तम्)उन्नतस्तनस्थलीविलोलहारमौक्तिकव्रातदीधितिप्रतानबद्धसौहृदा सदा ।अन्धकारिकामिनीदरस्मितद्युतिर्धुनोत्वन्धकारमन्तरङ्गवासिनं घनं मम ॥१॥अम्बरस्थले पुरा पुरन्दरो ददर्श यांयां वदन्ति पर्वतप्रसूतिमैतिहासिकाः ।सा परा पुरामरेः पुरन्ध्रिकाऽखिलाम्बिकापुत्रकाय मज्जते ददातु दक्षिणं करम् ॥२॥पादपङ्कजे धृता नरैरबाह्यभक्तिभिःपाणिपङ्कजे धृता नवेन्दुखण्डधारिणा ।चारुहेमहंसका मनोज्ञरत्नकङ्कणालोकजालपालिनी पुनातु मां विलासिनी ॥३॥उक्षराजवाहनस्य जीविताद् गरीयसीपक्षिराजवाहनादिवर्ण्यमानवैभवा ।केकिलोकचक्रवर्तिवाहनेन पुत्त्रिणीवारणारिसार्वभौमवाहना गतिर्मम ॥४॥बालकुन्दकुट्मलालिकान्तदन्तपङ्क्तिकाकुण्डलानुबिम्बशोभिशुद्धगण्डमण्डला ।बिभ्रती रतीशवेत्रविभ्रमं भ्रुवोर्युगंशुभ्रभानुशेखरस्य सुन्दरी प्रणम्यते ॥५॥आजिदक्षवाहवैरियातुधानबाधितंया ररक्ष देवबृन्दमिन्दिरादिवन्दिता ।सा कटाक्षपातधूतभक्तलोकपातकापावकाक्षसुन्दरी परात्परा गतिर्मम ॥६॥तारकाधिनाथचूडचित्तरङ्गनर्तकीमन्दहाससुन्दरास्यपङ्कजा नगात्मजा ।दीनपोषकृत्यनित्यबुद्धबुद्धिरव्ययागृह्यते गणाधिपेन सर्वतो नृणां पदे ॥७॥अष्टमीशशाङ्कखण्डदर्पभञ्जनालिकाविष्टपत्रयाधिनाथमानसस्य डोलिका ।पापपुञ्जनाशकारिपादकञ्जधूलिकाश्रेयसे ममास्तु शैललोकपालबालिका ॥८॥सानुमत्कुलाधिनाथबालिकालिकुन्तलाजङ्गमेव काऽपि तप्तहेमसालभञ्जिका ।भक्तियुक्तलोकशोकवारणाय दीक्षिताशीतशीतवीक्षिता लघु स्यतादघं मम ॥९॥पुण्यनामसंहतिः पुरारिचित्तमोहिनीपुष्पबाणचापचारुझिल्लिकाऽखिलाम्बिका ।पुण्यवैरिपुष्टदुष्टदैत्यवंशनाशिनीपुत्रकस्य रक्षणं पुरातनी करोतु मे ॥१०॥क्षाममध्यमस्थली सुधाघटोपमस्तनीकृष्णसारलोचना कुमुद्वतीप्रियानना ।भ्रूविलासधूतधैर्यकाञ्चनाद्रिकार्मुकाकाचिदिक्षुकार्मुकस्य जीविका जयत्युमा ॥११॥लोहिताचलेश्वरस्य लोचनत्रयीहितालोहितप्रभानिमज्जदब्जजाण्डकन्दरा ।हासकान्तिवर्ध्यमानसारसारिमण्डलावासमत्र मे करोतु मानसे महेश्वरी ॥१२॥दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवाकाममित्रवामनेत्रधामतृप्तकैरवा ।एकतः परः पुमान्परा वराङ्गनाऽन्यतःशुभ्रकीर्तिरेकमूर्तिरादधातु नश्शिवम् ॥१३॥शुम्भदैत्यमारिणी सुपर्वहर्षकारिणीशम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी ।कामितार्थदायिनी करिप्रकाण्डगामिनीवीतकल्कमादधातु विघ्नराजमम्बिका ॥१४॥देवतासपत्नवंशकाननानलच्छटावारणारिसार्वभौमवाहना घनालका ।नन्दिवाहनस्य काऽपि नेत्रनन्दिनी सुधानेत्रलाञ्छितालिका सुतं पुनातु कालिका ॥१५॥राजसुन्दरानना मरालराजगामिनीराजमौलिवल्लभा मृगाधिराजमध्यमा ।राजमानविग्रहा विराजमानसद्गुणाराजते महीधरे मदम्बिका विराजते ॥१६॥पर्वचन्द्रमण्डलप्रभाविडम्बनाननापर्वताधिनाथवंशपावनी सनातनी ।गर्वगन्धनाशिनी विभावरीविचारिणांशर्वचित्तनायिका करोतु मङ्गलं मम ॥१७॥ओजसश्च तेजसश्च जन्मभूमिरच्युतानीलकञ्जबन्धुबद्धमौलिरागमस्तुता ।वीतरागपाशजालनाशबद्धकङ्कणाविश्वपालिनी मया महेश्वरी विचिन्त्यते ॥१८॥अण्डमण्डलं यया निरन्तरं च पच्यतेसंस्फुरत्यशेषभूतहार्दपीठिकासु या ।श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभिर्यामुपासते विदो नमामि तां परात्पराम् ॥१९॥पञ्चयुग्मवेषभृत्परात्परा सुरार्चितापञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना ।वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनीप्रेतमञ्चशायिनी कुलं चिराय पातु मे ॥२०॥कर्मणा यथाविधि द्विजातयो यजन्ति यांब्रह्मणा यथाश्रुतं स्तुवन्ति यामधीतिनः ।चेतसा यथा गुरूक्ति चिन्तयन्ति यां विदःसा परा जगत्त्रयीजनन्यजा जयत्युमा ॥२१॥वासुदेवजायया विनम्रया निषेवितावामदेवचाटुचित्रवाक्यबन्धलालिता ।वासवादिदेवताजयप्रणादहर्षितावारयत्वघानि मे वसुन्धराभृतस्सुता ॥२२॥पूर्णिमासुधामरीचिसुन्दरास्यमण्डलाफुल्लपद्मपत्रदीर्घसम्प्रसन्नलोचना ।पुण्यभूनिषेवणाय पुत्रमेतमुद्यतंपूर्णकाममादधातु पादलग्नमम्बिका ॥२३॥लालयन्ति बालकं वतंसशीतदीधितिंशीलयन्ति सूक्ष्मतां मनांसि योगिनामिव ।कालयन्तु पापिनां कुलानि संहतीस्सतांपालयन्तु च स्मितानि योषितः पुरद्विषः ॥२४॥पादसेविनः कवेर्मनोहरातिशक्वरीवर्ग एष नाट्यकारिनिर्जरीगणो यथा ।लोकजालचक्रवर्तिपुण्ययोषितो मनस्सम्मदाय साधुकष्टवारणाय कल्पताम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP