मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| सप्तमः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - सप्तमः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र सप्तमः स्तबकः Translation - भाषांतर व्योमशरीरा।, मातृकादिविभूतयश्च (वसन्ततिलकावृत्तम्)वाणीसरोरुहदृशो हयराजहंसोवक्त्रारविन्दनिलयाद्बहिरागतायाः ।आलापकालदरहास इह स्थितानांक्षेमं करोतु सुतरां हरसुन्दरीयः ॥१॥नादोऽसि वागसि विभाऽसि चिदस्यखण्डाखण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते ।तत्तादृशीं निखिलशक्तिसमष्टिमीशेत्वामन्तरिक्षपरिक्ळिप्ततनुं नमामि ॥२॥विश्वप्रसिद्धविभवास्त्रिषु विष्टपेषुयाः शक्तयः प्रविलसन्ति परःसहस्राः ।तासां समष्टिरतिचित्रनिधानदृष्टिःसृष्टिस्थितिप्रलयकृद् भुवनेश्वरि त्वम् ॥३॥जाने न यत्तव जगज्जनयित्रि रूपंसङ्कल्प्यते किमपि तन्मनसो बलेन ।सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रिविन्यस्यते तव वचोतिगधाम नाम ॥४॥कामं वदन्तु वनितामितिहासदक्षास्त्वां सर्वलोकजनयित्रि सदेहबन्धाम् ।सत्यं च तद्भवतु सा तव काऽपि लीलादिव्यं रजस्तु तव वास्तविकं शरीरम् ॥५॥भूजन्मपांसुभिरगर्हितशुद्धरूपाया काऽपि पांसुपटली विपुलेऽन्तरिक्षे ।सा ते तनुः सुमहती वरदे सुसूक्ष्मातामेव देवसरणिं कथयन्ति धीराः ॥६॥या देवि देवसरणिर्भवमग्नदुर्गावैरोचनीति कथिता तपसा ज्वलन्ती ।राजीवबन्धुमहसा विहिताङ्गरागासा ते तनुर्भवति सर्वसुपर्ववर्ण्ये ॥७॥प्राणास्तवात्र हृदयं च विराजतेऽत्रनेत्राणि चात्र शतशः श्रवणानि चात्र ।घ्राणानि चात्र रसनानि तथा त्वचश्चवाचोऽत्र देवि चरणानि च पाणयोऽत्र ॥८॥सर्वत्र पश्यसि शृणोषि च सर्वतोऽम्बसर्वत्र खादसि विजिघ्रसि सर्वतोऽपि ।सर्वत्र च स्पृशसि मातरभिन्नकालेकः शक्नुयान्निगदितुं तव देवि भाग्यम् ॥९॥सर्वत्र नन्दसि विमुञ्चसि सर्वतोऽम्बसर्वत्र संसरसि गर्जसि सर्वतोऽपि ।सर्वत्रदेवि कुरुषे तव कर्मजालवैचित्र्यमीश्वरि निरूपयितुं क्षमः कः ॥१०॥विश्वाम्बिके त्वयि रुचां पतयः कियन्तोनानाविधाब्धिकलिता क्षितयः कियत्यः ।बिम्बानि शीतमहसां लसतां कियन्तिनैतच्च वेद यदि को विबुधो बहुज्ञः ॥११॥अव्यक्तशब्दकलयाऽखिलमन्तरिक्षंत्वं व्याप्य देवि सकलागमसम्प्रगीते ।नादोऽस्युपाधिवशतोऽथ वचांसि चासिब्राह्मीं वदन्ति कवयोऽमुकवैभवां त्वाम् ॥१२॥नानाविधैर्भुवनजालसवित्रि रूपैर्व्याप्तैकनिष्कलगभीरमहस्तरङ्गैः ।व्यक्तं विचित्रयसि सर्वमखर्वशक्तेसा वैष्णवी तव कला कथिता मुनीन्द्रैः ॥१३॥व्यक्तित्वमम्ब हृदये हृदये दधासियेन प्रभिन्न इव बद्ध इवान्तरात्मा ।सेयं कला भुवननाटकसूत्रभर्त्रिमाहेश्वरीति कथिता तव चिद्विभूतिः ॥१४॥आहारशुद्धिवशतः परिशुद्धसत्त्वेनित्यस्थिरस्मृतिधरे विकसत्सरोजे ।प्रादुर्भवस्यमलतत्त्वविभासिका यासा त्वं स्मृता गुरुगुहस्य सवित्रि शक्तिः ॥१५॥हव्यं यया दिविषदो मधुरं लभन्तेकव्यं यया रुचिकरं पितरो भजन्ते ।अश्नाति चान्नमखिलोऽपि जनो ययैवसा ते वराहवदनेति कलाऽम्ब गीता ॥१६॥दुष्टान्निहंसि जगतामवनाय साक्षादन्यैश्च घातयसि तप्तबलैर्महद्भिः ।दम्भोलिचेष्टितपरीक्ष्यबला बलारेःशक्तिर्न्यगादि तव देवि विभूतिरेषा ॥१७॥सङ्कल्परक्तकणपानविवृद्धशक्त्याजाग्रत्समाधिकलयेश्वरि ते विभूत्या ।मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्याचामुण्डया तनुषु देवि न किं कृतं स्यात् ॥१८॥त्वं लोकराज्ञि परमात्मनि मूलमायाशक्रे समस्तसुरभर्तरि जालमाया ।छायेश्वरान्तरपुमात्मनि योगमायासंसारसक्तहृदयेष्वसि पाशमाया ॥१९॥त्वं भूतभर्तरि भवस्यनुभूतिनिद्रासोमस्यपातरि बिडौजसि मोदनिद्रा ।सप्ताश्वबिम्बपुरुषात्मनि योगनिद्रासंसारमग्नहृदयेष्वसि मोहनिद्रा ॥२०॥विष्णुश्चकार मधुकैटभनाशनं यन्मुक्तः सहस्रदलसम्भवसंस्तुता सा ।काली घनाञ्जननिभप्रभदेहशालिन्युग्रा तवाम्ब भुवनेश्वरि कोऽपि भागः ॥२१॥विद्युत्प्रभामयमधृष्यतमं द्विषद्भिश्चण्डप्रचण्डमखिलक्षयकार्यशक्तम् ।यत्ते सवित्रि महिषस्य वधे स्वरूपंतच्चिन्तनादिह नरस्य न पापभीतिः ॥२२॥शुम्भं निशुम्भमपि या जगदेकवीरौशूलाग्रशान्तमहसौ महती चकार ।सा कौशिकी भवति काशयशाः कृशोदर्यात्माङ्गजा तव महेश्वरि कश्चिदंशः ॥२३॥माये शिवे श्रितविपद्विनिहन्त्रि मातःपश्य प्रसादभरशीतलया दृशा माम् ।एषोऽहमात्मजकलत्रसुहृत्समेतोदेवि त्वदीयचरणं शरणं गतोऽस्मि ॥२४॥धिन्वन्तु कोमलपदाः शिववल्लभायाश्चेतो वसन्ततिलकाः कविकुञ्जरस्य ।आनन्दयन्तु च पदाश्रितसाधुसङ्घंकष्टं विधूय सकलं च विधाय चेष्टम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP