मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
विंशः स्तबकः

उमासहस्रम् - विंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


सर्वसारमयी (मणिबन्धवृत्तम्)

प्रीतिविकासे स्वल्पतमो रोषविशेषे भूरितरः ।
अद्भुतहासो विश्वसुवो रक्षतु साधुं हन्तु खलम् ॥१॥

सज्जनचित्तानन्दकरी संश्रितपापव्रातहरी ।
लोकसवित्री नाकचरी स्तान्मम भूयो भद्रकरी ॥२॥

अर्चनकाले रूपगता संस्तुतिकाले शब्दगता ।
चिन्तनकाले प्राणगता तत्त्वविचारे सर्वगता ॥३॥

उज्ज्वलरूपे नृत्यकरी निष्प्रभरूपे सुप्तिकरी ।
गोपितरुपे सिद्धिकरी गोचररूपे बन्धकरी ॥४॥

अम्बरदेशे शब्दवती पावकताते स्पर्शवती ।
काञ्चनवीर्ये रूपवती सागरकाञ्च्यां गन्धवती ॥५॥

अप्स्वमलासु स्पष्टरसा चन्द्रविभायां गुप्तरसा ।
संसृतिभोगे सर्वरसा पूर्णसमाधावेकरसा ॥६॥

चक्षुषि दृष्टिश्शाततमा चेतसि दृष्टिश्चित्रतमा ।
आत्मनि दृष्टिश्शुद्धतमा ब्रह्मणि दृष्टिः पूर्णतमा ॥७॥

शीर्षसरोजे सोमकला भालसरोजे शक्रकला ।
हार्दसरोजे सूर्यकला मूलसरोजे वह्निकला ॥८॥

स्थूलशरीरे कान्तिमती प्राणशरीरे शक्तिमती ।
स्वान्तशरीरे भोगवती बुद्धिशरीरे योगवती ॥९॥

सारसबन्धोरुज्ज्वलभा कैरवबन्धोः सुनदरभा ।
वैद्युतवह्नेरद्भुतभा भौमकृशानोर्दीपकभा ॥१०॥

योधवराणामायुधभा योगिवराणामीक्षणभा ।
भूमिपतीनामासनभा प्रेमवतीनामाननभा ॥११॥

शस्त्रधराणां भीकरता शास्त्रधराणां बोधकता ।
यन्त्रधराणां चालकता मन्त्रधराणां साधकता ॥१२॥

गानपटूनां रञ्जकता ध्यानपटूनां मापकता ।
नीतिपटूनां भेदकता धूतिपटूनां क्षेपकता ॥१३॥

दीधितिधारा लोकयतां जीवितधारा वर्तयताम् ।
ज्ञापकधारा चिन्तयतां मादकधारा द्रावयताम् ॥१४॥

मन्त्रपराणां वाक्यबलं योगपराणां प्राणबलम् ।
आत्मपराणां शान्तिबलं धर्मपराणां त्यागबलम् ॥१५॥

सूरिवराणां वादबलं वीरवराणां बाहुबलम् ।
मर्त्यपतीनां सैन्यबलं रागवतीनां हासबलम् ॥१६॥

वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती ।
शाबरमन्त्रे कल्पवती सन्ततमन्त्रे सारवती ॥१७॥

ब्रह्ममुखाब्जे वाग्वनिता वक्षसि विष्णोः श्रीर्ललिता ।
शम्भुशरीरे भागमिता विश्वशरीरे व्योम्नि तता ॥१८॥

भूग्रहगोलैः कन्दुकिनी विष्टपधाने कौतुकिनी ।
यावदनन्तं वैभविनी प्राणिषु भूयस्सम्भविनी ॥१९॥

कञ्जभवाण्डे मन्डलिनी प्राणिशरीरे कुण्डलिनी ।
पामरभावे सल्ललना पण्डितभावे मोदघना ॥२०॥

नार्यपि पुंसा मूलवती तन्व्यपि शक्त्या व्याप्तिमती ।
व्याप्तिमतीत्वे गुप्तिमती चित्रविचित्रा काऽपि सती ॥२१॥

दीधितिरूपा चित्तमयी प्राणशरीराऽप्यद्वितयी ।
ब्रह्मशरीरं ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्मपरम् ॥२२॥

विष्टपमाता भूरिकृपा विष्टपराज्ञी भूरिबला ।
विष्टपरूपा शिष्टनुता विष्टपपारे शिष्टमिता ॥२३॥

दुर्जनमूलोच्छेदकरी दीनजनार्तिध्वंसकरी ।
धीबललक्ष्मीनाशकृशं पुण्यकुलं नः पातु शिवा ॥२४॥

चन्द्रकिरीटाम्भोजदृशः शान्तिसमृद्धं स्वान्तमिमे ।
सम्मदयन्तु श्रोत्रसुखाः सन्मणिबन्धाः सूरिपतेः ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP