मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| द्वितीयः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - द्वितीयः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र द्वितीयः स्तबकः Translation - भाषांतर सर्गादिवर्णनम् (पञ्चचामरवृत्तम्)सहादरेण यो वलक्षपारिजातमालयागलस्थलीविभूषया ध्वनिं विनैव भाषते ।महेशपुण्ययोषितो मनोज्ञहास एष मेविभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥१॥निरन्तरश्रिते सदा कृपारसप्रवाहिनीविलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी ।सुधातरङ्गकल्पहासभासुरानना शिवापदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥२॥करोति या बिभर्ति या निहन्ति या जगत्त्रयंसमन्ततो विभाति या न दृश्यते क्वचिच्च या ।अतीव गुप्तरूपिणी गुरूपदेशमन्तरान शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥३॥महान्धकारबन्धुरस्य भूतसञ्चयस्य याविनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते ।समन्ततो विजृम्भणाय भासनाय चाभवन्महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥४॥महेशगर्भतः समस्तभूतबीजकोशतःकिरन्त्यशेषविश्वमप्यपारदिव्यवैभवा ।विचित्रचेष्टयाऽऽद्यया विधूतनाथनिद्रयाजगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥५॥भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययंसमामनन्ति वैदिकाः सदर्चिते सदाह्वयम् ।न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवेद्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥६॥स चेद्भवोऽभिधानतो भवान्यसि त्वमव्ययेसमीर्यते स सद्यदि त्वमम्ब भण्यसे सती ।न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसेन वेद्मि कालिके कथं सतोऽसतश्च भिद्यसे ॥७॥जगद्विधानकार्यतः पुरा सुरासुरस्तुतेत्वमम्ब जीवितं भवस्यभावमूलवादिनाम् ।विकल्पवर्जिता मतिः प्रबोधमूलवादिनांरसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥८॥भवत्यसावतो भवान्यनादिरन्तवर्जिताजगन्ति माति नित्यमोरसौ तदभ्युधाय्युमा ।रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यतेपरैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥९॥चितिः परैव कामना रसेन केनचिद्युताचितिः परैव सर्वदाऽप्यनस्त्यजस्य तु क्रिया ।चितिः परैव गोचरावभासिका मतिः स्मृतात्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥१०॥चिकीर्षति प्रभौ ज्वलत्त्वदीयकीलसन्ततेर्विकीर्णधूमजालमेतदम्बरस्थलं ततम् ।विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणीपृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥११॥पुनर्विपाकतो घनीभवद्भिरक्षिगोचरैस्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः ।अजाण्डवृक्षकोटिकन्दबृन्दवद्व्यधाः पुरामहेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥१२॥तपोऽग्निधूमजालके भवन्ति तैजसाणवोभवन्ति जीवनाणवो भवन्ति पार्थिवाणवः ।क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवेसहस्रभानुमन्डलं तु गोचरादि गृह्यताम् ॥१३॥मयूखमालिमण्डले निधाय पादमुग्रयामयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया ।खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभिर्व्यधायि मङ्गलादिभिः सह ग्रहैरियं मही ॥१४॥विसर्जनेन भूयसाऽपि देव्यतृप्तयेयताविचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया ।इहान्तरे वसुन्धरामयूखमालिबिम्बयोर्अमुष्य कर्मणः सवित्रि चन्द्रमन्डलं फलम् ॥१५॥वधूपुमाकृती ततो बभूवथुर्युवां शिवेत्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे ।अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवाद्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥१६॥पुमानथो स बिम्बतो हिरण्मयो दिवाकरेधियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा ।इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभोरिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् ॥१७॥स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरेतथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ ।रसस्य देवताऽसि देवि पुष्करे दिवाकरेमयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥१८॥विसर्जनेन भूयसा नभस्यमुत्र भास्करेमहीषु चाम्बिके युवां विधाय देहिनो बहून् ।क्षितेः सुधाकरं गतान् पितॄन् विनेतुमव्ययेतनू च तत्र बभ्रथुः प्रपञ्चराज्ञि मायया ॥१९॥नभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरंदिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् ।इहास्मदन्तरालयं वदन्ति विष्णुमच्युतंसवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणि ॥२०॥नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरंदिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया ।विराजमानमक्षरं विराजमन्तरे नृणांसवित्रि तत्त्ववेदिनामियं तु नामकल्पना ॥२१॥हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिकेदिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् ।शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरंचिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥२२॥सरोरुहाक्षवाग्वधूमनोहरौ तु पूर्ववत्सुधांशुबिम्बपूरुषस्तु रुद्रसंज्ञकः शिवे ।हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवःसदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥२३॥प्रभोः प्रमाऽऽदितस्ततः प्रमावती स्वयं पृथग्विहायसा शरीरिणी प्रभौ ततो हिरण्मयेहिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करेतथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥२४॥मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधीदविष्ठपादपङ्कजा धुनोतु कष्टजालकम् ।इमे च कोमलैः पदैरमूल्यतल्पशालिनस्तदीयमञ्चरूपतां भजन्तु पञ्चचामराः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP