मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| पञ्चत्रिंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - पञ्चत्रिंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र पञ्चत्रिंशः स्तबकः Translation - भाषांतर प्रार्थना (इन्दुवदनावृत्तम्)अन्धतमसं शशिविभामभिदधानाकान्तिमलमास्यकमलस्य विदधाना ।अन्धकविरोधिदयितास्मितलवश्रीर्भातु भुवनस्य सकलस्य कुशलाय ॥१॥भाहि विविधा कृतिमती द्विजसमूहेपाहि गतिहीनमखिलेश्वरि कुलं नः ।देहि बहुकालभजकाय वरमेतंयाहि नगनन्दिनि यशः शशिवलक्षम् ॥२॥वारयति घोरतरपातकसमूहंवर्धयति धर्ममपि शर्मकरमन्ते ।किङ्करजनस्य न किमावहति भव्यंशङ्करपुरन्ध्रि तव पादपरिचर्या ॥३॥यस्य मनुजस्य हृदयेऽस्ति सदये तेनाकचरसेव्यमयि पादसरसीजम् ।तं भजति पद्ममुखि पद्मवनवासालाभभवने भवतु नामरपुरोधाः ॥४॥यद्यखिलमौनिगणगीतगुणजालंकालभयहारिकरुणारसमरन्दम् ।अद्रितनयाङ्घ्रिजलजन्म हृदये स्यादष्टमगतोऽपि विदधातु रविजः किम् ॥५॥लेखललनाकचसुमैः कृतबलिं तेयो भजति पादघृणिमालिनमनन्ते ।निस्तरति नूनमयमस्तमितमोहःशोकतिमिरं सकललोकगणमातः ॥६॥शीतकरदर्पहरवक्त्रजलजातेशीतगिरिनन्दिनि तवाङ्घ्रिजलजातम् ।यः स्मरति देवि हृदि विस्मरति सोऽयंविष्टपमशेषमपि कष्टततिमुक्तः ॥७॥सक्तिरयि यस्य तव पादसरसीजेशक्तिधरमातरनलाक्षगृहनाथे ।पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौस्वर्णशिखरीव बुधलोकशरणं स्यात् ॥८॥वैरिगणनिर्दलनखड्गवरपाणेवाससि पदोर्दशनवाससि च शोणे ।नेत्रमिषपावकविशेषितललाटेपापमखिलं जहि मृगाधिपतिघोटे ॥९॥वेदचयवेदिजनवादविषयस्यप्रतियुतलोकततिशोकशमनस्य ।वेतनविवर्जितभटोऽयमहमङ्घ्रेःशीतकरपोतधरपुण्यवनिते ते ॥१०॥कार्यमयि मे किमपि कार्यपटुबुद्धेःपादसरसीजयुगलीपरिजनस्य ।अम्ब वद जम्भरिपुगीतगुणजालेशुम्भकुलनाशकरि शम्भुकुलयोषे ॥११॥त्वं यदि शिलावदयि नो वदसि कृत्यंनास्ति तव राज्यपटुबुद्धिरिति सत्यम् ।आदिश यथार्हकरणीयकृतिनित्यंराज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥१२॥पञ्चसु विहाय मनसः कमपि सङ्गंपुत्रधनमित्रजनबान्धववधूषु ।एष भजते जननि पादजलजं तेपालय नु मुञ्च नु तवोपरि स भारः ॥१३॥वज्रधरमुख्यसुरसञ्चयकिरीटस्थापितमहार्घमणिरञ्जितनखाय ।जीवितमदायि जगदीश्वरि मदीयंपादजलजाय तव पालय नु मा वा ॥१४॥देहि जगदीश्वरि न वा मदभिलाषंपाहि करुणावति न वा कुलमिदं नः ।शूलधरकामिनि सुरासुरनिषेव्यंपादकमलं तव परे न विजहामि ॥१५॥पासि किल पादयुगकिङ्करसमूहंहंसि किल पापततिमापदि नुता त्वम् ।दन्तिवदनप्रसु वदन्ति मतिमन्तोनानृतमिदं भवतु नाकिजनवर्ण्ये ॥१६॥शक्रमुखदेवततिवन्दितविसृष्टेवक्रघनकेशि चरणे तव लुठन्तम् ।आपदि निमग्नमिममाश्रितमनाथंनन्दिहयसुन्दरि न पालयसि केन ॥१७॥घोषमयमम्ब विदधाति पदलग्नोनावसि पुराणि किमु नारि बधिराऽसि ।वन्दिसुरबृन्दनुतिभाषितहृतं वाकर्णयुगलं तव कपालिकुलयोषे ॥१८॥अम्ब भव बिम्बफलकल्परदचेलेशम्बरसपत्नबलकारिबहुलीले ।प्रागमृतभानुमुकुटस्य मदयित्रीतं कुरु ततः परमुरीकृतमदर्थम् ॥१९॥निर्मलसुधाकरकलाकलितमस्तेधर्मरतपालिनि दयावति नमस्ते ।एतमव देवि चरणाम्बुरुहबन्धुंशीतधरणीधरसुते गमय नान्धुम् ॥२०॥अद्रिकुलपालककुलध्वजपताकेभद्रगजगामिनि दरिद्रमयि मत्या ।क्षुद्रमिव शोच्यमिममङ्घ्रिजलजाप्तंरुद्रदयिते जननि पाहि न जहीहि ॥२१॥अस्तु तव पादकमले स्थितिरजस्रंनास्ति परदुःखविवशे हृदि तु शान्तिः ।अस्तु करुणेऽयमस्तु मतिलोपःकष्टमिदमम्ब मम भूरि परिशिष्टम् ॥२२॥दुःखसुखभेदरहिता न मतिरासीत्साधुखलभेदरहिता न मतिरासीत् ।भाग्यमितिमान्यमथवा मम तदेतन्मातरिह सङ्घभजने यदवकाशः ॥२३॥अस्तु मम भेदमतिरस्तु मम पक्षोयत्नपरताऽस्तु मम मास्तु च विमोक्षः ।मोक्षमयि वेद्मि कुलकष्टततिमोक्षंप्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥२४॥शाक्वरगणेन मुखरेऽत्र गणनाथेविष्णुयशसीशवधु जिष्णुमुखवन्द्ये ।अम्ब करुणां कुरु शिवङ्करि निरङ्कस्वच्छकिरणार्भकविभूषितललाटे ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP