मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| एकोनविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - एकोनविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र एकोनविंशः स्तबकः Translation - भाषांतर ध्येयललितारूपम् (प्रमाणिकावृत्तम्)प्रफुल्लकल्पपादपप्रसूनसद्यशोहरम् ।महारुजं धुनोतु ते महेशसुन्दरीस्मितम् ॥१॥मुनीन्द्रमूलवेदिभूधनञ्जयप्रबोधनम् ।यतीन्द्रहार्दपेटिका कवाटबन्धभेदनम् ॥२॥यथाविधिक्रियापरद्विजातिचित्तशोधनम् ।ममाम्बिकास्मितं भवत्वघप्रतापरोधनम् ॥३॥सुवर्णसालभञ्जिका चरेव शोभयाऽधिका ।अतीव मार्दवान्विता नवेव पुष्पिता लता ॥४॥सुपर्वमौलिरत्नभा विराजिहेमपादुका ।मरालिकानिमन्त्रकप्रशस्तरत्ननूपुरा ॥५॥वलक्षदीधितिप्रभाविशेषहृन्नखावली ।मुनीन्द्रशुद्धमानसप्रमेयपादसौष्ठवा ॥६॥घनीभवत्तटित्प्रभाप्रवाहकल्पजङ्घिका ।मतङ्गजेन्द्रनासिका मनोज्ञसक्थिशोभिनी ॥७॥प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।विशालकेशचुम्बितोल्लसन्नितम्बमण्डला ॥८॥अजाण्डपिण्डसंहतिप्रपूर्णकुक्षिशालिनी ।अपारदिव्यकान्तिवार्निधाननाभिदीर्घिका ॥९॥बिसप्रसूनसायकच्छुराभरोमराजिका ।जगत्त्रयीवसज्जनोपजीव्यदुग्धभृत्कुचा ॥१०॥महेशकण्ठबन्धकप्रशस्तबाहुवल्लरी ।समस्तविष्टपाभयप्रदायिपाणिपङ्कजा ॥११॥विलोलहारमौक्तिकप्रतानसंवदत्स्मिता ।विशुद्धसुन्दरस्मितप्रकाशभासिताम्बरा ॥१२॥सुकोमलोष्ठकम्पनप्रभीतदुर्जयासुरा ।सुयुक्तकुन्दकुट्मलप्रकाशदन्तपङ्क्तिका ॥१३॥शरत्सुधांशुमण्डलप्रभाविगर्हणानना ।सुधामरन्दवज्जपासुमोपमाधराधरा ॥१४॥तिलप्रसूनचारुताऽपहासिभासिनासिका ।नवीनभाभनासिकाविलम्बिदिव्यमौक्तिका ॥१५॥विशुद्धगण्डबिम्बितस्वरूपरत्नकुण्डला ।महामहस्तरङ्गितप्रभावशालिलोचना ॥१६॥दलान्तरस्थयामिनीप्रभुप्रभालिकस्थली ।मयूरबर्हगर्हणप्रकृष्टकेशभासिनी ॥१७॥दिवाकरायुतोज्ज्वला हिमांशुलक्षशीतला ।तटित्सहस्रभासुरा निरङ्कचन्द्रशेखरा ॥१८॥नभोन्तरालचारिणी महाविचित्रकारिणी ।कुलाग्निकुण्डशायिनी जगत्कथाविधायिनी ॥१९॥नभस्तले बलेश्वरी धरातले क्रियेश्वरी ।दिवाकरे विभेश्वरी सुधाकरे रसेश्वरी ॥२०॥महेशवेश्मदीपिका जगत्त्रयप्रमापिका ।अशेषशीर्षशासिनी समस्तहृन्निवासिनी ॥२१॥गुणस्तवे गुणस्तवे गुणप्रकर्षदायिनी ।विचिन्तने विचिन्तने विशिष्टशक्तिधायिनी ॥२२॥भ्रमाकुलेन दुस्तरा भवालसेन दुर्गमा ।अमन्त्रकेण दुर्भरा जगत्त्रयेण दुर्जया ॥२३॥सुवर्णचेलधारिणी समस्तमोदकारिणी ।विलासिनी निरामया विचिन्त्यतां मनस्त्वया ॥२४॥पदाब्जवन्दिनः कवेरियं प्रमाणिकावली ।महेशमानसेश्वरी गृहे महाय कल्पताम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP