मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| अष्टादशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - अष्टादशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र अष्टादशः स्तबकः Translation - भाषांतर रूपविशेषाः कुण्डलिनीसमुल्लासश्च (प्रहर्षिणीवृत्तम्)धुन्वन्त्यस्तिमिरततिं हरित्तटीनांधिन्वन्त्यः पुरमथनस्य लोचनानि ।स्कन्दाम्बाहसितरुचो हरन्तु मोहंसान्द्रं मे हृदयगतं प्रसह्य सद्यः ॥१॥तन्वाना विनतहितं विरोधिवर्गंधुन्वाना बुधजनमोदमादधाना ।सम्राज्ञी त्रिदिवधरारसातलानांरुद्राणी भणतु शिवानी मत्कुलस्य ॥२॥योऽम्ब त्वां हृदि विदधत्तटित्प्रकाशांपीयूषद्युतिमदहृन्मुखारविन्दाम् ।अन्यत्तु स्मृतिपथतो धुनोति सर्वंकामारेः सुदति नतस्य भुव्यसाध्यम् ॥३॥कालाभ्रद्युतिमसमानवीर्यसारांशक्त्यूर्मिभ्रमकरशुक्लघोरदंष्ट्राम् ।यो धीरो मनसि दधाति भर्गपत्नित्वामस्य प्रभवति सङ्गरेषु शस्त्रम् ॥४॥यः प्राज्ञस्तरुणदिवाकरोज्ज्वलाङ्गींतन्वङ्गि त्रिपुरजितो विचिन्तयेत्त्वाम् ।तस्याज्ञां दधति शिरस्सु फुल्लजाजीमालां वा धरणिजुषो वशे भवन्तः ॥५॥यो राकाशशधरकान्तिसारशुभ्रांबिभ्राणां करकमलेन पुस्तकं त्वाम् ।भूतेशं प्रभुमस्कृत्प्रबोधयन्तींध्यायेद्वाग्भवति वशेऽस्य नाकदूती ॥६॥जानीमो भगवति भक्तचित्तवृत्तेस्तुल्यं त्वं सपदि दधासि रूपमग्र्यम् ।प्रश्नोऽयं भवति नगाधिनाथकन्येरूपं ते मदयति कीदृशं स्मरारिम् ॥७॥चारु स्यादलमिति वक्तुमम्ब शक्यंरूपं ते न वदति कोऽपि कीदृशं वा ।सम्मोहं परमुपयान्ति कान्तिभाण्डेकामारेरपि नयनानि यत्र दृष्टे ॥८॥सङ्कल्पैः किमु तव भूषणान्यभूवंच्छिल्पीन्द्राः किमु विदधुर्यथाऽत्र लोके ।तत्स्वर्णं भगवति कीदृशं मणीनांकिं रूपं भवति च तत्र योजितानाम् ॥९॥यान्यङ्गान्यखिलमनोज्ञसारभूतान्येतेषामपि किमु भूषणैरुमे ते ।आहोस्विल्ललिततमानि भान्ति भूयोभूषाभिर्विकृततमाभिरप्यमूनि ॥१०॥मुक्ताभिर्भवति तवाम्ब किन्नु हारःपीयूषद्युतिकरसारनिर्मलाभिः ।मुण्डैर्र्वा घलघलशब्दमादधद्भिःसङ्घर्षात् त्रिभुवनसार्वभौमभामे ॥११॥वस्त्रं स्याद्यदि तव सर्वशास्त्रगम्येकार्पासं दिवि च तदुद्भवोऽनुमेयः ।क्षौमं चेद्भगवति तस्य हेतुभूताःकीटाः स्युर्गगनजगत्यपीति वाच्यम् ॥१२॥रुद्रस्य प्रियदयितेऽथवा सुरद्रुर्भूषाणां मणिकनकप्रकल्पितानाम् ।वस्त्राणामपि मनसे परं हितानांकामं ते भवति समर्पकः समर्थः ॥१३॥सुस्कन्धो बहुविटपः प्रवालशोभीसम्फुल्लप्रसवसुगन्धवासिताशः ।वृक्षः किं भगवति कल्पनामकोऽयंसङ्कल्पः किमु तव कोऽपि देवि सत्यः ॥१४॥सङ्कल्पान्न भवति कल्पपादपोऽन्यःस्वर्दोग्ध्री पुनरितरा न कुण्डलिन्याः ।यः कुर्याद् द्वयमिदमुद्गतात्मवीर्यंकारुण्यात्तव भुवि चास्य नाकभाग्यम् ॥१५॥आपीनं भवति सहस्रपत्रकञ्जंवत्सोऽस्याः पटुतरमूलकुण्डवह्निः ।दोग्धाऽऽत्मा दहरसरोरुहोपविष्टोमौनं स्यात्सुरसुरभेस्तनूषु दोहः ॥१६॥दोग्ध्र्यास्ते भगवति दोहनेन लब्धंवत्साग्निप्रथमनिपानसद्रवायाः ।दुग्धं स्वाद्वमृतमयं पिबन्ममात्मासन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः ॥१७॥वत्सोऽग्निः पिबति दृढाङ्घ्रिरम्ब पश्चादश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा ।वृद्धिं च व्रजति पयः प्रतिप्रद्रोहंदोग्ध्र्यास्ते द्रव इह कुण्डलिन्यपारः ॥१८॥सोमस्य द्रवमिममाहुरम्ब केचिद्दुग्धाब्धेरमृतरसं गदन्ति केऽपि ।बाष्पं केऽप्यभिदधते तु कौलकुण्डंपीनोधस्स्रवमितरे भणन्ति धेनोः ॥१९॥मूले त्वं ज्वलदलनप्रकाशरूपावीणायां प्रबलमहामदोष्मरूपा ।शीर्षाब्जे सततगलद्रसस्वरूपाभ्रूमध्ये भवसि लसत्तटित्स्वरूपा ॥२०॥हार्दे चेदवतरसीह पुण्डरीकेछायावत्सकलमपि प्रपश्यसि त्वम् ।आरूढा दशशतपत्रमद्रिपुत्रिस्याश्चेत्त्वं भणसि जगत्सुधासमुद्रम् ॥२१॥नेत्राभ्यां सरसिरुहच्छदायताभ्यांवक्त्रेण प्रविमलहासभासुरेण ।प्रत्यक्षा मम मनसः पुरः पुरन्ध्रीकामारेः परणितमस्मदीयभाग्यम् ॥२२॥पुण्यानां परिणतिरेव भूतभर्तुःसिद्धानां बलनिधिरेव कोऽपि गूढः ।भक्तानां दृढतरिरेव शोकसिन्धौमग्नानां मम जननी महीध्रपुत्री ॥२३॥उद्धर्तुं विनतजनं विषादगर्तात्संस्कर्तुं भुवनहिताय योगयुक्तम् ।संहर्तुं खलकुलमुद्धतं च दर्पाद्भर्गस्य प्रियतरुणी सदा सदीक्षा ॥२४॥मृद्वीकां मधुरतया सुधां महिम्नागाम्भीर्यात्सुरतटिनीं च निर्जयन्ती ।शर्वाणीचरितपरा प्रहर्षिणीनांश्रेणीयं जयतु गणेश्वरेण बद्धा ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP