मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| पञ्चदशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - पञ्चदशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र पञ्चदशः स्तबकः Translation - भाषांतर शक्तेः स्वागतम् (स्वागतावृत्तम्)आपदामपहरन्तु ततिं नःसम्पदामपि दिशन्तु समृद्धिम् ।दन्तकुन्दरुचिदत्तबलानिव्योमकेशसुदृशो हसितानि ॥१॥अल्पमप्यधिकशक्तिसमृद्धंमन्दमप्यधिकसूक्ष्मविसारम् ।सुस्मितं स्मरविरोधिरमण्याःकल्पतां मम कुलस्य शुभाय ॥२॥पुष्कराद्रविमतो भुवमेतांभूमितश्शशधरं क्रममाणा ।नैव मुञ्चति पदं बत पूर्वंनोत्तरं व्रजति नेशपुरन्ध्री ॥३॥भूषणेष्विव सवित्रि सुवर्णंमृत्तिकामिव घटेष्वखिलेषु ।विश्ववस्तुषु निरस्तविशेषांदेवि पश्यति सतीं विबुधस्त्वाम् ॥४॥किट्टभूतमखिलेश्वरजायेदृश्यजातमखिलं निजपाके ।प्राणबुद्धिमनसामिह वर्गःसारभूत इति सूरिजनोक्तिः ॥५॥सारमीश्वरि तिलेष्विव तैलंविग्रहेषु निखिलेषु निगूढम् ।ये धिया मथनतो विदुरेकंते भवन्ति विबुधास्त्वयि लीनाः ॥६॥आयसं त्रिभुवनेश्वरि पिण्डंवह्निनेव तपसा तनुपिण्डम् ।यस्य चिज्ज्वलनजालमयं स्यात्तप्तमम्ब स तवालयभूतः ॥७॥योऽरणेर्मथनतोऽतिपवित्रंवीतिहोत्रमिव वीतकलङ्कः ।प्राणमुज्ज्वलयति स्वशरीरात्त्वामसावभयदेऽर्हति यष्टुम् ॥८॥प्राणता श्वसितमेव विचार्यंकुर्वता करणमेव निभाल्यम् ।गच्छता गमनमेव विशोध्यंतत्तनौ मथनमागमबोध्यम् ॥९॥यो रसं पिबति मूर्धसरोजात्सोमपोऽयमनघः प्रयतात्मा ।अग्निहोत्रमखिलेश्वरि नित्यंमूलकुण्डदहनस्थितिरस्य ॥१०॥चिन्मयी पिबसि सोममिमं किंसोम एव किमसावसि मातः ।पीयसे पिबसि च स्वयमेकापेयपातृयुगलं किमु भूत्वा ॥११॥तैजसं कनकमग्निवितप्तंतेज एव कनकाङ्गि यथा स्यात् ।मोदरूपकलया तव तप्तंतन्मयं भवति मोदजपिण्डम् ॥१२॥काऽपि मोदलहरी तव वीचिर्निर्गता दशशतारसुधाब्धेः ।पूरयत्यखिलमम्ब शरीरंनेह वेद्मि परमे जडभागम् ॥१३॥सेयमुत्तमतमा निपतन्तीशीतलाद्दशशतारपयोदात् ।प्रेरितादखिलराज्ञि भवत्याबुद्धिसस्यमवताद्रसवृष्टिः ॥१४॥दुग्धसिन्धुमथनादमृतं वाशब्दसिन्धुमथनात्प्रणवो वा ।लभ्यते सुकृतिभिस्तव वीचिर्मूर्धकञ्जमथनाद्रस एषः ॥१५॥अस्थिषु प्रवहति प्रतिवेगंमज्जसारममृतं विदधाना ।बिभ्रती मदमनुष्णमदोषंमूर्धकञ्जनिलये तव धारा ॥१६॥तैत्तिरीयकथितो रसलाभःसोऽयमेव सकलागमवर्ण्येएतदेव शशिमण्डलनाथेतन्त्रभाषितपरामृतपानम् ॥१७॥मूर्धसोममजरामररूपेयुक्तवीक्षणकरेण निपीड्य ।शम्भुसुन्दरि सुनोमि धिनोमित्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥१८॥दृष्टिरेव रविदीधितिरुग्राशीर्षकञ्जशशिनं प्रविशन्ती ।शीतलामृतमयी खलु भूत्वायोगिनो द्रवति मोदकला ते ॥१९॥मूर्धनि द्रवसि योगयुतानांचक्षुषि ज्वलसि शङ्करभामेतिष्ठसि स्थिरपदा कुलकुण्डेबाह्यतः स्खलसि नैव कदाऽपि ॥२०॥सा यदि द्रवति मोदकला स्यात्सा यदि ज्वलति चित्कलिका स्यात् ।सा परा स्थिरपदा यदि तिष्ठत्यक्षरा भवति काचन सत्ता ॥२१॥पश्यता नयनमण्डलवृत्तिंगृह्यसे त्वमचलाधिपकन्ये ।जानता दशशतारविलासंस्पृश्यसे विदितमम्ब रहस्यम् ॥२२॥व्याप्तशक्त्यसुबलेन लसन्तीभानुबिम्बनयनेन तपन्ती ।चन्द्रबिम्बमनसा विहरन्तीसा पुनर्जयति मूर्ध्नि वसन्ती ॥२३॥स्वागतं सकललोकनुतायैस्वागतं भुवनराजमहिष्यै ।स्वागतं मयि भृशं सदयायैस्वागतं दशशतारमितायै ॥२४॥सत्कविक्षितिभुजो ललिताभिःस्वागताभिरनघाभिरिमाभिः ।स्वागतं भणितमस्तु भवान्यैखेलनाय शिर एतदितायै ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP