मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| नवमः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - नवमः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र नवमः स्तबकः Translation - भाषांतर मन्दहासः (आर्यावृत्तम्)शारदवलक्षपक्षक्षणदावैमल्यशिक्षकोऽस्माकम् ।जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥१॥व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः ।दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः ॥२॥अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः ।हासो हरहरिणदृशो गतपङ्कं मम करोतु मनः ॥३॥दिशि दिशि विसर्पदंशुप्रशमिततापं परास्तमालिन्यम् ।कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥४॥अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् ।हसितानि गिरिशसुदृषो मम प्रबोधाय कल्पन्ताम् ॥५॥भाषातुषारदीधितिदीधित्या सह विहायसो रङ्गे ।विचरन् पुरहरतरुणीदरहासो मे हरत्वेनः ॥६॥रुद्राणीदरहसितान्यस्माकं संहरन्तु दुरितानि ।येषामुदयो दिवसो भूषापीयूषकिरणस्य ॥७॥स्कन्दजननीमुखेन्दोरस्मान् पुष्णातु सुस्मितज्योत्स्ना ।मुनिमतिकैरविणीनामुल्लासकथा यदायत्ता ॥८॥कमनीयकण्ठमालामुक्तामणितारकावयस्यो नः ।कामान् वितरतु गौरीदरहासो नाम धवलांशुः ॥९॥अनवद्यकण्ठमालामुक्तावलिकिरणनिवहसहवासी ।हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥१०॥ञ इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः ।पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् ॥११॥आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे ।अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः ॥१२॥स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या ।द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः ॥१३॥रदवाससा रथी मां शरी करैः पातु पार्वतीहासः ।पावकदृशं जिगीषोः पञ्चपृषत्कस्य सेनानीः ॥१४॥शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः ।दशनद्युतिद्विगुणितश्रीकं शोकं धुनोतु मम ॥१५॥ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः ।श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥१६॥अधरप्रवालशयने नासाभरणप्रभाविलासिन्या ।रममाणो हररमणीहासयुवा हरतु नः शोकम् ॥१७॥अधरोष्ठवेदिकायां नासाभरणांशुशाबकैः साकम् ।कुलमखिलमवतु खेलन्नद्रिसुताहासबालो नः ॥१८॥अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य ।हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥१९॥गिरिशाङ्गरागभसितं स्वागतवचसाऽभिनन्ददादरतः ।गिरिजालीलाहसितं गरीयसीं मे तनोतु धियम् ॥२०॥दयितेन संल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन ।वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः ॥२१॥शुद्धः कुचाद्रिनिलयादपि मुक्ताहारतो हरपुरन्ध्र्याः ।वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥२२॥व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते ।अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥२३॥बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः ।तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥२४॥अमलदरस्मितचिह्नास्ता एताः सर्वमङ्गला आर्याः ।कमनीयतमास्वसमामुपतिष्ठन्तामुमां देवीम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP