मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| द्वादशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - द्वादशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र द्वादशः स्तबकः Translation - भाषांतर शृङ्गारवर्णनम् (रथोद्धतावृत्तम्)शर्वधैर्यगुणशातशस्त्रिका शम्बरारिजयकेतुपट्टिका ।मन्दहासिकलिका मदापदं पर्वतेन्द्रदुहितुर्व्यपोहतु ॥१॥मुक्तभोगिकटकेन पाणिना मुग्धगात्रि परिगृह्य ते करम् ।एकदा शशिकिशोरशेखरः सञ्चचार रजताद्रिभूमिषु ॥२॥तस्य तत्र परितः परिभ्रमन् वल्लभां वकुलपुष्पचुम्बिनीम् ।पार्वति त्वदलकोपमद्युतिः च्ञ्चरीकतरुणो मनोऽधुनोत् ॥३॥प्रेयसीं चपलचारुलोचनामुल्लिखन् वपुषि शृङ्गकोटिना ।त्वद्विलोकितनिभैर्विलोकितैः धूर्जटेरमदयन्मनो मृगः ॥४॥मञ्जुकुञ्जभवनानि मालतीपुष्परेणुसुरभिः समीरणः ।पेशला च पिकबालकाकली मोहमीश्वरि हरस्य तेनिरे ॥५॥अग्रतः कुसुमशोभिता लताः पार्श्वतस्त्वमगपालबालिके ।सर्वतो मदनशिञ्जिनीध्वनिर्धीरता कथमिवास्य वर्तताम् ॥६॥कीरकूजितसमाकुले वने शम्भुमम्ब तव पार्श्ववर्तिनम् ।आजघान मकरध्वजश्शरैरर्दयन्त्यवसरे हि शत्रवः ॥७॥ताडितो मकरकेतुना शरैरंसदेशमवलम्ब्य पणिना ।एकहायनकुरङ्गलोचना त्वामिदं किल जगाद शङ्करः ॥८॥काकलीकलकलं करोत्यसौ बालचूतमधिरुह्य कोकिला ।वाचमुद्गिर सरोजलोचने गर्वमुन्नतमियं विमुञ्चतु ॥९॥फुल्लकुन्दमकरन्दवाहिनो मल्लिकामुकुलधूलिधारिणः ।कम्पयन्ति शिशवः समीरणाः पल्लवानि हृदयं च तन्वि मे ॥१०॥वर्णनेन हृतचक्षुषः श्रियः सुप्रसन्नमधुराकृतीनि ते ।अङ्गकानि दयिते भजेऽर्भकः स्वेदबिन्दुहरणेन वाऽनिलः ॥११॥तावदेव मम चेतसो मुदे बर्हमेतदनघाङ्गि बर्हिणः ।यावदक्षिपथमेष विश्लथो गाहते न कबरीभरस्तव ॥१२॥रागवानधर एष सन्ततं निर्मलद्विजसमीपवर्त्यपि ।एभिरस्य सहवासतः प्रिये नेषदप्यपगतो निजो गुणः ॥१३॥चक्षुषः सुदति ते सगोत्रता कैरवैर्निशि दिने कुशेशयैः ।कश्यपैरपि वसिष्ठबान्धवैर्भूसुपर्वण इव द्विगोत्रिणः ॥१४॥अल्पयाऽप्यतिसमर्थया स्मितज्योत्स्नया गगनगं हरत्तमः ।केवलं सुवचनामृतं किरच्चन्द्रबिम्बमतुषारमाननम् ॥१५॥नित्यमब्जमुखि ते परस्परश्लिष्टमश्लथपटीकुटीरगम् ।शर्वरीभयविवर्जितं स्थलीचक्रवाकमिथुनं कुचद्वयम् ॥१६॥लालनीयमयि देवमौलिभिः कोमलं चरणपल्लवद्वयम् ।कच्चिदद्रिपुरुहूतपुत्रिके न स्थली तुदति कर्कशा तव ॥१७॥एवमादि वदति त्रिलोचने त्वन्मुखे लसति मौनमुद्रया ।आततान जलचारिकेतनो नर्तनं नगमहेन्द्रबालिके ॥१८॥देवि ते पुरजितावतंसितः पारिजातकुसुमस्रजा कचः ।मानसं पुरजितोऽमुना हृतं स्मर्यते क्व मलिनात्मना कृतम् ॥१९॥ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमर्दिनी ।नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमावयोः ॥२०॥लोचनोत्सवविधौ विशारदे वारिदावरणदोषवर्जिते ।मर्दयत्यपि नभोगतं तमः श्यामिकारहितसुन्दराकृतौ ॥२१॥भाति शीतकिरणस्तनन्धये प्राणनायकजटाकुटीजुषि ।शुभ्रपर्वततटे शुभाङ्गि ते सम्मदाय न बभूव का निशा ॥२२॥सन्तु भूषणसुधांशुदीधिति व्यक्तमुग्धमुखशोभयोर्मिथः ।तानि तानि गिरिजागिरीशयोः क्रीडितानि जगतो विभूतये ॥२३॥मोदकादनपरस्य सृष्टये क्रीडितं जननि वां किमप्यभूत् ।शक्तिभृत्तनयरत्नजन्मने किञ्चिदीश्वरि बभूव खेलनम् ॥२४॥माधुरीरसपरिप्लुता इमाः काव्यकण्ठविदुषो रथोद्धताः ।आदधत्वचलनाथनन्दिनी मानसे कमपि मोदमुत्तमम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP