मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| षोडशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - षोडशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र षोडशः स्तबकः Translation - भाषांतर अध्यात्मं शक्तिवैभवम् (कुमारललितावृत्तम्)महोविहतमोहं महेशमहिलायाः ।स्मितं वितनुतान्मे गृहेषु महमग्र्यम् ॥१॥इयद्बहुलगोलं जगल्लघु दधाना ।पितामहमुखैरप्यखण्डितविधाना ॥२॥अदुष्टचरितेभ्यः शुभान्यभिदधाना ।कुलानि मलिनानां हतानि विदधाना ॥३॥दुकूलमरुणांशुप्रभं परिदधानाहरस्य रजताद्रिक्षितीशितुरधीना ॥४॥मुनीन्द्रकृततन्त्रप्रसिद्धबहुदानाउमा बलमलं नस्तनोत्वतुलमाना ॥५॥निरस्तविषयां यद् दधाति मतिकीलाम् ।समस्तजगदीशे धृतिस्तव मतेयम् ॥६॥श्रुता प्रवणचित्तं स्मृता नरमपापम् ।धृता हृदि विधत्से गतस्वपरभावम् ॥७॥अहंमतितटिन्याः सतामवनिमूलम् ।त्वमेव किल सेयं महर्षिरमणोक्तिः ॥८॥अहंमतिलतायास्त्वयीशवधु कन्दे ।स्थितोऽम्ब भुवनस्य प्रविन्दति रहस्यम् ॥९॥यदेतदखिलाम्ब प्रसिद्धमिव दृश्यम् ।तवैव किल जालं गतो भणति मूलम् ॥१०॥प्रपश्यसि पराची जगद्विविधभेदम् ।स्वतः किमपि नान्यत्प्रतीचि पुरतस्ते ॥११॥स्तुता भवसि शश्वत् स्मृता च भजने त्वम् ।धृता भवसि योगे तता भवसि बोधे ॥१२॥स्तुता दिशसि कामं स्मृता हरसि पापम् ।धृताऽस्यधिकशक्त्यै तता भवसि मुक्त्यै ॥१३॥विशुध्यति यताशी प्रमाद्यति न शुद्धः ।प्रमादरहितस्य स्फुटे लससि कञ्जे ॥१४॥स्फुटं यदि सरोजं नटीव पटु नाट्यम् ।करोषि यतबुद्धेर्जगज्जननि शीर्षे ॥१५॥शिरोगतमिदं नः प्रफुल्लमयि पद्मम् ।अनल्पमकरन्दं त्वमम्ब भव भृङ्गी ॥१६॥सरोजमतुदन्ती पिबाम्ब मकरन्दम् ।महामधुकरि त्वं भजेर्मदममन्दम् ॥१७॥अमङ्गलमितः प्राङ् मयेशवधु भुक्तम् ।इतः परममेये सुखान्यनुभव त्वम् ॥१८॥अहङ्कृतिवशान्मे चिदीश्वरि पुराऽभूत् ।तवाभवदिदानीं ममास्ति न विभुत्वम् ॥१९॥यदाऽभवदियं मे तदाऽन्वभवदार्तिम् ।तवेश्वरि भवन्ती भुनक्तु शमिदानीम् ॥२०॥करोत्वियमहन्ता विवादमधुनाऽपि ।तथाऽपि पुरतस्ते महेश्वरि विवीर्या ॥२१॥इयं च तव बुद्धेर्यतो भवति वृत्तिःइमामपि कुरु स्वां क्षमावति विरोषा ॥२२॥सुधाब्धिरिह मातस्तरङ्गशतमाली ।चिदभ्रपुरमत्र प्रभापदमदभ्रम् ॥२३॥कुरु त्वमिदमेकं निजालयशतेषु ।सवित्रि विहरास्मिन् यथेष्टमयि देहे ॥२४॥कुमारललितानां कृतिर्गणपतीया ।करोतु मुदमेषा कपर्दिदयितायाः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP