मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| एकविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - एकविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र एकविंशः स्तबकः Translation - भाषांतर अर्धनारीश्वरः (अनुष्टुब्वृत्तम्)इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः ।जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥१॥एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् ।अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥२॥गीर्वाणपृतनापालं बालं लालयदेकतः ।उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥३॥विडम्बितब्रह्मचारिकोकैकस्तनमेकतः ।कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥४॥सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः ।फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥५॥एकतो दोर्लतां बिभ्रन् मृणालश्रीविडम्बिनीम् ।शुक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥६॥कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा ।परस्परकरस्पर्शलोभतो विहिताञ्जलि ॥७॥शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि ।ऊर्ध्वाधराङ्गसापेक्षसन्धिज्ञानगलस्थलम् ॥८॥एकतः कैरवश्रेणीनिद्रामोचनलोचनम् ।अन्यतः कमलावासक्षणाधायकवीक्षणम् ॥९॥एकतश्चक्षुषा चारुतारेणाधीतविभ्रमम् ।अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥१०॥एकतो भालफलके काश्मीरेण विशेषितम् ।अन्यतोऽर्धेक्षणेनैव रतिभ्रूविभ्रमद्रुहाः ॥११॥एकतः शीतलालोकं साधुलोकशिवङ्करम् ।अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥१२॥एकतो मणिताटङ्कप्रभाधौतकपोलकम् ।अन्यतः कुण्डलीभूतकुण्डलीभूतकुण्डलि ॥१३॥एकतः कुन्तलान् बिभ्रदिन्द्रनीलोपमद्युतीन् ।अन्यतः पावकज्वालापाटलांशुच्छटा जटाः ॥१४॥एकतः केशपाशेन कीर्णेनोरसि भासुरम् ।अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥१५॥अवतंसितमम्लानपारिजातस्रजैकतः ।विमलोल्लोलमालिन्या विभुधापगयाऽन्यतः ॥१६॥रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा ।वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥१७॥कान्तार्धविग्रहे मातर्जटार्धाश्चिकुरास्तव ।दधत्यदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् ॥१८॥दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे ।वामं पार्श्वं विभोः शेतुं दातुं ते दक्षिणः करः ॥१९॥लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा ।स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥२०॥खिद्यन्ति योषितः कुक्षौ वहन्त्योऽर्भकमेककम् ।अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥२१॥अनुरूपा शिवस्य त्वमनुरूपः शिवस्तव ।अलङ्कारोऽनुरूपो वामकलङ्कोऽर्भकः शशी ॥२२॥तवैव तव देहांशो हरस्यैव हरस्य यः ।प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥२३॥अविभक्तं भवानि स्वं भवस्य तव चोभयोः ।सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥२४॥भवस्य भागमुत्सृज्य भवानी भागमात्मनः ।भजत्वनुष्टुभामासां सृष्टानां नारसिंहिना ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP