मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| प्रथमः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - प्रथमः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र प्रथमः स्तबकः Translation - भाषांतर व्योमशरीरा। स्त्रीरूपा च (आर्यावृत्तम्)अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् ।अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥१॥निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् ।अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥२॥सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः ।लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥३॥परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः ।परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥४॥अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः ।शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥५॥अतिसूक्ष्मधूमकल्पं लोकं ततमाKययाऽन्यया नाकम् ।एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥६॥धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः ।तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥७॥उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः ।व्योमान्तरिक्षगगनप्रभृतिभिरभिधाभिराहुस्तम् ॥८॥प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन ।परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥९॥दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः ।तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥१०॥सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः ।ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥११॥आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः ।अदितेर्दक्षो दक्षाददितिरिति श्रुतिरबाधैवम् ॥१२॥जगतां मातापितरौ सतीभवौ केऽपि पण्डिताः प्राहुः ।अदितिप्रजापती तावपरेषां भाषया विदुषाम् ॥१३॥दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय ।दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥१४॥भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् ।मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥१५॥तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये ।वपुषः कीलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥१६॥पल्लवमृदु वेदिगतज्वलनपवित्रं महार्घमणिकान्तम् ।नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥१७॥केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् ।कथयन्ति स्त्रियमुत्तमलावण्यास्वादितो गण्याम् ॥१८॥सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः ।तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥१९॥मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा ।प्रादुर्भवति गभीरध्वनिरविषह्या यतः शक्तिः ॥२०॥आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् ।नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥२१॥व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्ध्यपेक्षया नष्टा ।शक्तिर्यागे तस्मिन्नवसानं तदुदितं सत्याः ॥२२॥पर्वतनाम्नो वैदिकभाषायां यदियमतिबला शक्तिः ।घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥२३॥तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् ।दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥२४॥एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् ।जानीयुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP