संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
महालयश्राद्धादौ पितृगणक्रमः

अथान्हिकादिप्रकरणम् - महालयश्राद्धादौ पितृगणक्रमः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पितृतर्पणं ब्रह्मयज्ञांगपितृतर्पणवत्कार्यम् । तत्र पितृगणक्रमश्लोकः - तातांबात्रितयं सपत्नजननी मातामहादित्रयं सस्त्रि स्त्री तनयादि तातजननीस्वभ्रातरः सस्त्रियः ॥ तातांबात्मभगिन्यपत्यधवयुक्‍ जाया पिता सदगुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥१॥ अस्यार्थः - पित्रादित्रयं, मात्रादित्रयं, सापत्नमाता, मातामहादित्रयं सपत्नीकं, पत्नी, पुत्रः कन्या च, पितृव्यमातुलस्वभ्रतारः सपत्नीकाः सापत्याः, पितृभगिनी मातृभगिनी स्वभगिन्यः सभर्तृकाः सापत्याः, श्वशुरः सपत्नीकः ससुतः, गुरुरुपदेष्टा कुलगुरुश्च, शिष्यः आप्तश्च । एवमेते पितरो महालये तीर्थे तर्पणे च ग्राह्याः । अत्र प्रसंगवशादेतेषां श्राद्धादौ कस्मिन् कर्मणि कया विभक्त्या कथमुच्चारः कार्य इत्याकांक्षायां बालबोधार्थमयं श्लोकोऽत्र लिख्यते । संकल्पासनयोः षष्ठीद्वितीयावाहने तथा । पिंडदाने चतुर्थी स्याच्छेषाः संबुद्ध्यः स्मृताः ॥१॥ अक्षय्यासनयोः षष्ठी द्वितीया तर्पणे तथा ॥ अन्नदाने चतुर्थी स्याच्छेषाः संबोधनाः स्मृताः ॥२॥ इति श्रीमत्साधले इत्युपाख्यमाणग्रामनिवासिमहादेवसूर्यात्मज दिवाकरशर्मकृते कृत्यदिवाकरे मध्यमांशौ श्राद्धप्रकरणं संपूर्णम् ॥

समाप्तोऽयं मध्यमांशुः ।


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP