संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| ब्रह्मयज्ञः अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः प्रातः स्मरणम् - ब्रह्मयज्ञः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत ब्रह्मयज्ञः Translation - भाषांतर ततो मध्याह्ने पूर्ववत्स्नात्वा ब्रह्मयज्ञं कुर्यात् । तत्र ब्रह्मयज्ञाधिकारिनिर्णयः कमलाकरादौ द्रष्टव्यः । दर्भासने उपविश्याचम्य दर्भपाणिः ‘ ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञं करिष्ये ’ इति संकल्प्य वामजानूपरि दक्षिणं पादं संस्थाप्योपस्थं कृत्वा सजलदर्भगर्भब्रह्मांजलिं कृत्वा ‘ नमो नमो नमः ’ इति त्रिः पठित्वा - यो देवः सविताऽस्माकं धियो धर्माधिगोचरे । प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यमुपास्महे । अग्निं पुरस्तान्निहितं यज्ञस्येश्वरमृत्विजम् । आह्वातारं देवतानामीडे यागफलप्रदम् ॥ नृणां समिद्भिः प्रतिबुद्ध एव यष्टा स्वधेन्वर्थमिव प्रगेऽग्निः । यस्यार्चयः खे प्रसरंति दीप्राः शाखाद्रुमाणामिव सूज्जिहानाः ॥ अधिश्रितं तेजसि तेऽखिलं जगत्तेजस्तदब्धौ ह्रदयेऽन्नसंहतौ । अपां समूहे युधि तत्र चाह्रतो यस्ते रसस्तं मधुरं जुषामहै ॥ ऋग्वेदाय नमः यजुर्वेदाय नमः सामवेदाय नमः अथर्ववेदाय नमः शिक्षायै नमः कल्पाय नमः व्याकरणाय नमः निरुक्ताय नमः ज्योतिषाय नमः छंदोविचित्यै नमः अध्यात्मविद्यायै नमः इतिहासपुराणेभ्यो नमः तर्कविद्यायै नमः पूर्वमीमांसायै नमः उत्तरमीमांसायै नमः इति जपित्वा । देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ इति त्रिर्जपित्वा - विद्याध्वरतपोयोनिरयोनिर्विष्णुरीडितः ॥ वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ इत्युक्त्वा उदकं स्पृशेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP