संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| मंत्रपुष्पाञ्जलिमंत्राः अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - मंत्रपुष्पाञ्जलिमंत्राः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत मंत्रपुष्पाञ्जलिमंत्राः Translation - भाषांतर तत्रादौ देवे लिख्यंते ॥ ॥ नमामरुद्भ्योनमोअप्सरोभ्यो नमोवसुभ्योनमआदित्येभ्यः । नमामिरुद्रान्यमशक्नवाय्वग्निंचयेऽन्येबृहतश्चदेवाः १। श्रीनागवक्रः सुमुखोगणेशो विघ्नेश्वरोभक्तजनेष्टदाता । यः शंकरानंदकृदेकदंतः पायात्सवोयंप्रभजंतिदेवाः २। योब्रह्मरुपोभगवान्स्वयंभूः पद्मासनः पद्मभवोविधाता । लोकेश्वरोविश्वसृजामधीशः पायात्सवोयंप्रणमंतिदेवाः ३। क्षीराब्धिजायाः पतिरादिदेवः सर्वांतरात्मास्वजनार्तिहर्ता । नित्योऽनवद्योऽनिधनोद्भवोयः पायांत्सवोयंप्रणमंतिदेवाः ४। दिगंशुकस्त्र्यक्षउमाधवश्च यः पन्नगालंकृतआत्मजारिः । जटाकलापोवृषकेतुरुग्रः पायात्सवोयंशरणाश्चदेवाः ५। षाण्मातुरस्तारकसू दनोयः स्कंदोऽग्निजन्माशरभूः षडास्यः । नित्यंसवोरक्षतुदैत्यजन्ये यप्रार्थयंत्यात्मजयायदेवाः ६। वैकुंठपादांबुजसंनिकृष्टस्थितानिशंस्मेरमुखांबुजन्मा । यालोकमाताप्रणतोऽस्म्यहंतां यत्प्राप्तिमिच्छंतिभवादिदेवाः ७। योब्रह्मसत्रेहयशीर्षआस यच्छासतोवेदगिरो बभूवुः । तयज्ञमूर्तिंशरणंप्रपद्ये यस्मिन्वसंतेय जनीयदेवाः ८ । ब्रह्माननात्प्रच्युतवेदसंघानादातुमंभः सुयुगांतकाले ॥ मीनोऽभवद्योभगवाननंतस्तस्मै नमोयंशरणाश्चदेवाः ९। क्षीरोदधिंयर्हिसुरासुराणामुन्मथ्नतां कूर्मवपुर्हिभूत्वा । योऽद्रिंस्वपृष्ठेधृतवान्प्रपद्ये तंचाऽवितायोनसुधार्थिदेवाः १०। योदंष्ट्रयाक्ष्मोद्धरणेप्रकुर्वन्हेमाक्षमब्धावसुरंजघान । तत्क्रोंडरुपंप्रणतोऽस्मिदेवं यचेडिरेपद्मभवादिदेवाः ११। यः पद्मयोनेर्वरदानदृप्तं दैत्येंद्रमुग्रंस्वनियोज्यगुप्त्यै । देवानृसिंहोहतवानहंतं वंदेऽस्तुवन् यंद्रुहिणादिदेवाः १२। भूत्वाऽतिखर्वोऽर्थिमिषेणदेवो बलिंत्रिपद्भिर्निगृहीतवान्यः । आह्रत्यसर्वांश्रियमानतस्तंये नाप्तकामाश्चकृतांहिदेवाः १३। ब्रह्मद्रुहांयः क्षितिकंटकानां क्षत्रान्वयानांकदनंचकार । रामतमीडेप्रथितप्रभावं यत्पर्शुनावीतभियः कुदेवाः १४। संजघ्निवान्यातुकुलंक्षितोयोऽवतीर्यरामंत महंप्रपद्ये । भूभारमुत्तारयितुपुरायमादौबभूवुः शरणाश्चदेवाः १५। यः पूतनामाद्रिधृगप्यजन्मा जातः परा त्माभुविदैत्यहत्यै ॥ कृष्णः स्वयंतंशरणोऽस्मियस्य ह्यंशैः सहायाअभवंश्चदेवाः १६॥ वेदोक्तधर्माचरतांजना नांगतेर्विमोहायबभूवबुद्धिः । यस्तंसदाहंप्रणतोऽस्मिदेवं यंचौपधर्म्यंप्रवदंतिदेवाः १७। विष्णोः कथानैवसतीगृहेषु पाखंडिनः स्युश्चयदात्रिवर्णाः । शास्ताभविष्यत्यथकल्किरित्थं ब्रुवंतिधीराः खलुभूमिदेवाः १८। अत्रेरपत्यमभिकांक्षतआहतुष्टो दत्तोमयाऽहमितियद्भगवान् सदत्तः ॥ तस्मैनमोऽस्तुनिजभक्तसुरद्रुमाय यत्पादपंकजरजोंऽभिलषंतिदेवाः १९। विष्णोर्नुवीर्यगणनांकतमोऽर्हतीहयः पार्थिवान्यपिकविंर्विममेरजांसि । चस्कंभयः स्वरंहसास्खलतात्रिपृष्ठयस्मिन्सदाप्रमुदितानिवसंतिदेवाः २०। दस्त्रौयमोवह्निविधीदुरुद्रा अदितिर्जीवोऽहिः पितरोभगः । अर्यमार्कस्त्वष्टाचप्रभंजनइमे युष्मान्पांत्वनिशंभदेवाः २१। इंद्राग्नीमित्रोवृत्रहानिऋतिरापोविश्वेदेवाविष्णुर्वसुश्च । पाश्यजैकपादहिर्बुध्न्यः पूषा चेमेयुष्मान्पांत्वनिशंभदेवाः २२। वन्हिर्ब्रह्मोमागणपत्यहीगुहो रविः शिवोदुर्गांतकोविश्वे । हरिः कामः पशुपति र्निशाकर इमेतिथी नांवः शंतन्वंतुदेवाः २३। धाताऽर्यमामित्रोवरुणइंद्रश्च विवस्वास्त्वाष्ट्रोपेद्रोअंशुर्भगः । पूषापर्जन्योऽविरतंवोऽभि रक्षंत्विमेआदित्याः क्रमतोमासदेवाः २४। आदित्यः सोमः क्षितिसूनुर्बुधश्च बृहस्पतिरुशनासूरपुत्रः । एवंवाराणांपतयः स्युरेते युष्मभ्यंशर्मप्रदिशंतुदेवाः २५। कुजः कवीरौहिणेयोविधुश्च रविः सौम्यउशनालोहितांगः ॥ गुरुः शनिरैनिजीवौचकुर्वंन्त्वेतेऽयंवः सततंराशिदेवाः ॥२६॥ इतिदेवे संज्ञामंत्राः ॥॥ अथ हवै पुरा हरिश्चंद्रो नाम राजा आस तस्य शतं पत्न्य आसुः सोऽनपत्यः पुत्रकामो नारदोपदेशतो वरुणं शरणं जगाम पुत्रो मे जायतां यदि वीरो जातस्तेन त्वांयजामीति तथेति वरुणेनोक्तेऽस्य पुत्रो जातस्तुरोहितः । जातः सुतो ह्यनेनांगमां यजस्वेति सोऽब्रवीद्यदापशुर्निर्दशो भवेत्त्वथ स मेध्यो भवेदिति निर्दशे जाते चस आगत्य यजस्व मामित्याह सोऽब्रवीद्दंताः पशोर्यदा जायेरन्नथ समेध्यो भवेदिति जाता दंता यजस्वेति स प्रत्याह सोऽब्रवीद्यदापतंत्यस्य दंता अथ समेध्यो भवेदिति पशोर्दंता निपतिता यजस्वेत्याह सोऽब्रवीद्यदा पशोर्दंताः पुनर्जायेरन्नथ स मेध्यो भवेदिति ’ पुनर्दंता जाता यजस्वेत्याहाथ सोऽब्रवीद्यदासान्वाहिको भवत्यथ समेध्यो भवेदथ सराजन्यः पशुः शुचिः । इति पुत्रानु रागेण स्नेहयंत्रितचेतसा ॥ कालं वंचयिता तंतमुक्तो देवस्तमैक्षत ॥ रोहितस्तदभिज्ञाय पितुः कर्म चिकिर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥१॥ अथ पितरं वरुणग्रस्तजातमहोदरं श्रुत्वा रोहितो ग्राममेयाय तमिंद्रः स्थविरोविप्रो भूत्वाभ्येत्य प्रतिषेधयन्नितिहोवाच - भूमेः पर्यटनं पुण्यंतीर्थक्षेत्रनिषेवणम् । रोहितायाऽऽदिशच्छक्रः सोप्यरण्येऽवसत्समाम् ॥ एवंद्वितीयेतृतीये चतुर्थेपंचमेतथा । षष्ठंसंवत्सरं तत्रचरित्वा रोहितः पुरीम् ॥ उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् । शुनः शेपं पशुं पित्रे प्रादायसमवंदत ॥ ततः पुरुषमेधेनहरिश्चंद्रो महत्कथोमहाशयोमुक्तोदरोवरुणादीन्देवानयजत्तत्र विश्वामित्रोहोताभवज्जमदग्निरध्वर्युरभूद्बसिष्ठो ब्रह्मायास्यउद्गाताचाभवत्तदा तस्मैतुष्टोददाविंद्रः शातकौंभमयंरथमथचराज्ञः सभार्यस्य सत्यसारांधृतिंदृष्ट्वा विश्वामित्रोभृशंप्रीतोऽविहतांगतिंददावित्येतद्धारिश्चंद्रमाख्यानं पुण्यंधन्यं यशस्यमायुष्यं यआख्यातिपठतिशृणोतिषां सइहदीर्घायुष्मानारोग्यवान् धनधान्यपशुपुत्रकीर्तिमानतुलंसुखंचसमश्नुतेदिवीतिससर्वलभते ससर्वंलभते ॥२॥ देवाधिदेवाय भक्तकल्पशाखिने नमोऽस्तुनित्यंसकलेष्टदायिने ॥ समेसर्वान्कामकामायकामान् । सर्वेश्वरः सर्वदातांददातु । शरण्यायशरणार्तिहराय । देवराजायनमः । स्वस्ति । साम्राज्यादिदायकंसार्वकामिकंदेवतासान्निध्यविधायकं देवतायाअहरहः परिचर्यांतेश्रद्धान्वितः प्रह्वः प्रांजलिरेतत्प्रपठन् पुष्पांजलिंसमर्पयेत्सदेवलोकेदेवतुल्योभवतिंतथैवेह प्राज्यानभिलषितान्कामान् समश्नुतेसमस्नुते । नमः सर्वहितार्थाय नम आनंदकारिणे ॥ नमः कल्याणकर्त्रे च नित्य देवाय ते नमः ॥१॥ इति मंत्रपुष्पाञ्जलिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP