संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
केवलामान्नदानश्राद्धप्रयोगः

अथान्हिकादिप्रकरणम् - केवलामान्नदानश्राद्धप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य पवित्रं धृत्वा देशकालौ संकीर्त्य अपसव्यं - ‘ अस्मत्पितृपितामहप्रपितामहानां अमुकवर्मणां अमुकगोत्राणां वसुरुद्रादित्यस्वरुपाणां ( सव्यं ) ‘ एतेषां तृप्त्यर्थं मम पितुः अमुकश्राद्धसिद्ध्यर्थं ब्राह्मणाय आमान्नदानमहं करिष्ये । तदंगत्वेन ब्राह्मणपूजांकरिष्ये ’ इति संकल्प्य तूष्णीं तिलोदकं कृत्वा तदुदकेन ‘ अपवित्रः पवित्रोवा ’ इति मंत्रेण सर्वं संप्रोक्ष्य आत्मानं च प्रोक्षयेत् । ततोऽपसव्येन ब्राह्मणं आसनाद्याच्छादनांतोपचारैः संपूज्य मंडले पात्रं निधाय तस्मिन्नभिघार्य चतुर्गुणं द्विगुणं समं वा आमान्नं परिविष्य प्रोक्ष्य अपसव्येन तूष्णीं परिषिच्य पाणिभ्यां पात्रमालभ्य ‘ विष्णो इदं आमान्नं रक्षस्व अस्मत्पितृपितामहप्रपितामहेभ्यः अमुकवर्मभ्यः अमुकगोत्रेभ्यः वसुरुद्रादित्यस्वरुपेभ्यः इदं आमान्नं यथाशक्तिसोपस्करं मम पितुः अमुकश्राद्धसिद्ध्यर्थं पितृप्रीत्यर्थं च अस्य ब्राह्मणस्य भोजनपर्याप्तं अमृतरुपेण संपद्यंतां नमो न मम ’ इति ब्राह्मणहस्ते तिलोदकमुत्सृजेत् ॥ ततः सव्येन ‘ आमान्नश्राद्धसांगतासिद्ध्यर्थं सतांबूलदक्षिणां तुभ्यमहं संप्रददे ’ इति दक्षिणां दत्त्वा ब्राह्मणः - ‘ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छंतु तथा राज्यं प्रीता नृणां पितामहाः । एताः सत्या आशिषः संतु पितृणामक्षय्या तृप्तिरस्तु ’ इत्याशीर्वादं गृहीत्वा नमस्कृत्य एको विष्णुर्महद्भूतं० अनेन मम पितुः आमान्नदानद्वारा अमुकश्राद्धाख्येन कर्मणा भगवान् पित्रादिरुपी जनार्दनवासुदेवः प्रीयताम् तत्सद्ब्रह्मार्पणमस्तु । द्विराचस्य उपर्युक्तप्रकारेण पितृत्रय्यास्तर्पणं कुर्यात् । पवित्रं विसृजेत् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ आमान्नदानप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP