संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
श्रीविष्णुप्रातः स्मरणम्

प्रातः स्मरणम् - श्रीविष्णुप्रातः स्मरणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् १। प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगुलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवरविप्रपरायणस्य २। प्रातर्भजामि भजतामभयड्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै । यो ग्राहवक्त्रपतितांघ्रिगजेन्द्रघोरशोकप्रणाशमकरोद्धृतशंखचक्रः ३। श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेन्नरः । लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ४॥ इति विष्णुप्रातः स्मरणम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP