संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
तत्रादौ प्रातः कृत्यम्

अथान्हिकादिप्रकरणम् - तत्रादौ प्रातः कृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


नत्वा महालसां देवीं यक्षिणीं ग्रामदेवताम् । क्षत्रियादि त्रिवर्णानां किंचिदाह्निकमुच्यते ॥ ब्राह्मे मुहूर्ते चोत्थाय चिंतयेदात्मनो हितम् । स्मरणं वासुदेवस्य कुर्यात्कलिमलापहम् ॥१॥ सुप्तः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया ॥२॥ त्रैलोक्यचैतन्यमयाधिदेव श्रीनाथ विष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥३॥ जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः । केनापि देवेन ह्रदि स्थितेन यथा नियुक्तोस्मि तथा करोमि ॥४॥ स्थितिः सेवा गतिर्यात्रा स्मृतिश्चिंतास्तुतिर्वचः । सर्वदा भगवन् विष्णो मदीयाराधनं तव ॥५॥ इति पठित्वाऽऽचम्य इष्टदेवतां पितरौ च नत्वा - पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥६॥ कर्कोटकस्य नागस्य दमयंत्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥७॥ इति पठित्वा गणेशादीनीष्टदैवतानि स्मरेत् ॥ तद्यथा -

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP