संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः )

प्रातः स्मरणम् - उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः )

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अथाचार्यो नेत्रस्पर्शाचमनं कृत्वा सर्वाध्याप्यानाचमय्प पवित्रं धृत्वा धारयित्वा च देशकालौ सड्कीर्त्य पुराणोक्तफलप्राप्त्यर्यं ममाध्याप्यानां चाधीतानां स्वविद्यामन्त्रादीनां यातयामतानिरासेनाप्यायानद्वारा श्रीपरमेश्वरप्रीत्यर्थमेतेषांअध्याप्यानां ( कर्ता यजमानश्चेत् एभिरध्याप्यैः सह ) अद्यौपाकरणेऽह्नि अन्तरितमुत्सर्जनाख्यं कर्म करिष्ये । तत्रादौ शरीरवाड्मनः शुद्ध्यर्थं पञ्चगव्यप्राशनं निर्विघ्नतासिद्ध्यर्थं महागणपतिपूजनं च करिष्ये । आचार्यः - ताम्रपात्रे - ‘ गोमूत्रं सर्वपापघ्नं पवित्रं रोगहानिकृत् । सर्वतीर्थमयं पुण्यं सर्वकर्मसु पावनम् ॥ ’ इति गोमूत्रं प्रक्षिप्य ‘ गोशकृद्गन्धवद्यच्च शुद्धिकृत्सर्वदोषह्रत् । पुष्टिकृत्तुष्टिकृन्नित्यं परमं मड्गलं स्मृतम् ॥ ’ इति गोमयं० । ‘ कामधेनुसमुद्भूतं वत्सोच्छिष्टं शुभं शुचि । सर्वदेवप्रियं दुग्धं यस्माद्दध्याज्यसम्भवः ॥ ’ इति पयः० । चन्द्रमण्डलसड्काशं पयः फेननिभं शुचि । क्षीरतक्रस्य संयोगात्संभूतं यद्दधिस्मृतम् ॥ ’ इति दधि० । ‘ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ॥ ’ इत्याजं० । ‘ विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज । नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव ॥ ’ इति कुशोदकम् । ‘ परमात्मने नमः ’ इति यज्ञियकाष्ठेन सम्मेल्ल्य ‘ परमात्मने नमः ’ इत्यभिमन्त्र्य ‘ यत्त्वगस्थिगतं पापं देहे तिष्ठति ममाके । प्राशनं पञ्चगव्यस्य दहत्वग्निरिवेन्धनम् ॥ ’ इति मंत्रेण स्वयं त्रिः प्राश्य अन्यानपि च त्रिवारं प्राशयित्वाऽऽचम्य गणेशं सम्पूजयेत् ( ‘ आचार्यस्तु यथा ’ इति मंत्रेण आचार्यं वृणुयाद्वा ) तत आचार्यः ( यजमानो वा ) - अद्येत्यादि० उत्सर्जनाड्गहोमं कर्तुं स्थण्डिलादि करिष्ये । तद्गोमयेन प्रदक्षिणमुपलिप्य दक्षिणेऽष्टावुदीच्यां द्वे प्रतीच्यां चतुः प्राच्यामर्धमित्युड्गुलानि त्यक्त्वा - उल्लिखेदुदगायामा तस्या उभयतोऽपरे । पूर्वायते उदक्संस्थे असंसृष्टे च पूर्वया ॥ मध्ये तिस्त्र उदक्‍ संस्थाः पूर्वायामा असंहताः । लिखिता येन शकलं यज्ञियं तं निधाय च । अद्भिरभ्युक्ष्य शकलं निरस्याप उपस्पृशेत् ॥ ततस्तैजसेन मृन्मयेन वा पात्रयुग्मेन सम्पुटीकृत्य समृद्धं निर्धूममग्निं सुवासिन्या स्वगृहादाह्रत्य स्थण्डिलादाग्नेय्यां निधाय ‘ एह्येहि सर्वामरहव्यवाह मुनिप्रवीरैरभितोऽभिजुष्ट । तेजोवता लोकगणेन सार्द्धं ममाध्वरं पाहि कवे नमस्ते ॥ ’ इत्यक्षतैरावाह्याच्छादनं दूरीकृत्य ‘ वैश्वानर नमस्तेऽस्तु हुताशन नमोऽस्तु ते । देवानां प्रीणनार्थाय तिष्ठात्र स्थण्डिले मम ॥ बलवर्द्धननामानमग्निं प्रतिष्ठापयामि ’ इति प्रतिष्ठाप्य प्रोक्षितेन्धनानि निक्षिप्य वेणुधमन्या प्रबोद्य ध्यायेत् - इष्टां शक्तिं स्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं जपाभम् । हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः ॥ मेषारुढो जटाबद्धो गौरवर्णो महौजसः । धूम्रध्वजो लोहिताक्षः सप्तार्चिः सर्वकामदः । आत्माभिमुखमासीन एवंरुपो हुताशनः ॥ अग्ने वैश्वानर शाण्डिल्यगोत्र मेषध्वज प्राड्मुखः सन्मम सम्मुखो वरदो भव । समिदद्वयं त्रयं वाऽऽदाय क्रियमाणे उत्सर्जनहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये । अस्मिन्नन्वाहितेऽग्नौ जातवेदसमग्निमिध्मेन प्रजापतिं प्रजापतिं चाघारदेवते आज्येनाग्नीषोमौ चक्षुषी आज्येन अत्र प्रधानं - सावित्रीं ब्रह्माणं श्रद्धां मेधां प्रज्ञां धारणां सदसस्पतिं अनुमतिं छंदांसि ऋषीन् एता देवता आज्यद्रव्येण, अग्निं अप्तृणसूर्यान् अग्निं शकुन्तं अग्निं मित्रावरुणौ अग्निं अपः अग्निं मरुतः अग्निं देवब्रह्माणि अग्निं इन्द्रासोमौ इन्द्रं अग्नामरुतः सोमंपवमानं सोमंपवमानं अग्निं संज्ञानं एताः प्रधानदेवतास्तण्डुलद्रव्येणैकैकयाहुत्या यक्ष्ये शेषेण स्विष्टकृतमग्निमिध्मसन्नहन्नेन रुद्रमयासमग्निं देवान् विष्णुमग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवता आज्येन ज्ञाताज्ञातदोषनिबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान्देवान् संस्रावेण अड्गदेवताः प्रधानदेवताः सर्वाः सन्निहिताः सन्तु साड्गोपाड्गेन कर्मणा सद्यो यक्ष्ये । ‘ प्रजापतये नमो नमः ’ इति समिदद्वयं अग्नौ त्यक्वा ‘ प्रजापतय इदं न मम ’ इति वदेत् । अग्निं सोदकेन पाणिनाऽष्टाड्गुलपरिमिते देशे ऐशानीं दिशमारभ्य समन्तात्प्रदक्षिणं त्रिः परिसमूह्य दशाड्गुलपरिमिते देशे प्रागादिदिक्षु दर्भैः परिस्तृणीयात् । तत्र प्राच्यां प्रतीच्यां चोदगग्रा दर्भाः, अवाच्यामुदीच्यां च प्रागग्राः, पूर्वपश्चात्परिस्तरणमूलयोरुपरि
दक्षिणपरिस्तरणम्, उत्तरपरिस्तरणं तु तदग्रयोरधस्तात् ते च दर्भा अनियतसंख्या एकैकस्यां दिशि चत्वारश्चत्वारो वा । ततोऽग्नेर्दक्षिणतो ब्रह्मासनार्थं उत्तरतश्च पात्रासादनार्थं कांश्चित् प्रागग्रान् दर्भानास्तृणीयात् । अग्नेरीशानीतस्त्रिरम्भसा परिषिच्य उत्तरास्तीर्णेषु दर्भेषु दक्षिणसव्यपाणिभ्यां क्रमणे हविः - ( तंडुल ) - स्थालीप्रोक्षण्यौ दर्वीस्रुवौ प्राणीताऽऽज्यपात्रे इध्माबर्हिषी इति द्वेद्वे प्राक्संस्थं न्युब्जे आसादयेत् । ततः प्रोक्षणीपात्रमुत्तानं कृत्वा तत्रानन्तर्गर्भितसाग्रसमस्थूलप्रादेशमात्रकुशद्वयरुपे पवित्रे निधाय शुद्धाभिरद्भिस्तत्पात्रं पूरयित्वा गन्धपुष्पाक्षतादि क्षित्वा उत्तानपाणिरड्गुष्ठोपकनिष्ठिकाभ्यामुदगग्रे पृथक्‍ पवित्रे धृत्वाऽपस्त्रिः प्रागुत्पूय पात्राण्युत्तानानि कृत्वा इध्मं विस्रस्य सर्वाणि पात्राणि त्रिः प्रोक्षेत् ता आपः किञ्चित् कमण्डलौ क्षिपेत् ( इत्येके ) प्राणीतापात्रमग्नेः प्रत्यड निधाय तत्र ते पवित्रे निधाय दुर्भेषु प्रोक्षण्यापोऽन्यैर्दर्भैराच्छादयेत् । उत्पूताभिरद्भिः प्रणीतापात्रं पूरयित्वा गन्धपुष्पाक्षतान्निक्षिप्य मुखसममुद्धृत्य अग्नेः उत्तरतो दर्भेषु निधाय अन्यैर्दभैराच्छादयेत् । ते पवित्रे आज्यपात्रे निधाय तत्पुरो निधाय आज्येन पूरयित्वा उदकस्थानड्गारान् भस्मना सहोदक्परिस्तरणाद्बहिर्निरुह्य तेषु पात्रमधिश्रित्ये ज्वलता दर्भोल्मुकेनावज्वल्य अड्गुष्ठपर्वमात्रं प्रक्षालितं दर्भाग्रद्वयं आज्ये क्षिप्त्वा पुनर्ज्वलता तेनैव दर्भोल्मुकेन तण्डुलैः सहाज्यं त्रिः पर्यग्नि कृत्वा तदुल्मुकं निरस्यापः स्पृष्ट्वाऽऽज्यं ‘ सर्पिरेतत्पवित्राभ्यां यज्ञार्हमनवस्करम् । करोम्युत्पूयकिरणैः सूर्यस्य सवितुर्वसोः ॥ इति प्रागुत्पुनाति सकृन्मंत्रेण द्विस्तूष्णीम् । पवित्रे अद्भिः प्रोक्ष्याग्नौ प्रहरेत् - ‘ स्कंदाय नमो नमः स्कन्दायेदं न मम ’ । अग्नेः पश्चात्परिस्तरणाद्बहिरात्मनोऽग्रतो भूमिं प्रोक्ष्य तत्र बर्हिः सन्नहनीं रज्जुमुदगग्रां प्रसार्य तस्यां बर्हिः प्रागग्रमुदगपवर्गमविरलमास्तीर्य तस्मिन्नाज्यपात्रं निधाय दक्षिणहस्तेन स्रुक्‍ स्रुवौ गृहीत्वा सव्येन कांश्चिद्दर्भानादाय सहैवाग्नौ प्रताप्य स्रुचं निधाय स्रुवं वामहस्ते गृहीत्वा दक्षिणहस्तेन दर्भाग्रैः स्रुवस्य बिलं प्रागादिप्रागपवर्गं त्रिः संमृज्य अभ्यात्मं बिलपृष्ठं, दर्भमूलैर्दण्डस्याधस्ताद्बिलपृष्ठादारभ्य यावदुपरिष्टाद्बिलं तावत्र्त्रिः संमृज्य प्रोक्ष्य प्रताप्य आज्यस्थाल्या उत्तरतः स्रुगसंसृष्टं निधाय तैरेव दर्भैर्जुहूं चैवमेव संस्कृत्य स्रुवादुत्तरतो निधाय दर्भानद्भिः क्षालयित्वा अग्नावनुप्रहरेत् । तण्डुलानभिघार्य अग्न्याज्ययोर्मध्येन नीत्वाऽऽज्याद्दक्षिणतो बर्हिष्यासाद्य अग्न्यायतनादेकादशाड्गुलपरिमिते देशे गन्धाक्षतपुष्पैरग्निमर्चयेदेवं - अग्नये जातवेदसे नमः अग्नये सप्तजिह्वाय नमः अग्नये हव्यवाहनाय नमः अग्नयेऽश्वोदराय नमः अग्नये वैश्वानराय नमः अग्नये कौमारतेजसे नमः अग्नये विश्वतो मुखाय नमः अग्नये देवमुखाय नमः इति । ‘ यस्मै कृशानो कृतिने सुलोकं करोषि यष्ट्रे सुखकारकं त्वम् । बह्वश्वगोवीरधनैरुपेतं धनं समाप्नोत्यविनश्वरं सः ॥ ’ इत्युपस्थायेध्ममात्मानं चालंकृत्य इध्मबन्धनरज्जुमिध्मस्थाने निधाय पाणिनेध्ममादाय मूलमध्याग्रेषु स्रुवेण त्रिरभिघार्य मूलमध्ययोर्मध्यभागे गृहीत्वा ‘ भो जातवेदस्तव चेदमिध्ममात्मा प्रदीप्तो भव वर्धमानः । अस्मान् प्रजाभिः पशुभिः समृद्धान् कुरु त्वमग्ने धनधान्ययुक्तान् ॥ जातवेदसेऽग्नये नमो नमः जातवेदसेऽग्नय इदं न मम । आघारहोमे वायव्यकोणमारभ्याग्नेयकोणपर्यन्तं ‘ प्रजापतये ’ इति मनसा स्मरन् ‘ नमः ’ इति आज्येन हुत्वा ‘ प्रजापतय इदं न मम ’ । पुनस्तथैव नैऋत्यकोणत ईशानीकोणपर्यन्तं पूर्ववत् हुत्वा त्यक्त्वा च स्रुवेणाज्यमादायोत्तरभागे - ‘ अग्नये नमो नमः ’  अग्नय इदं न मम दक्षिणभागे - ‘ सोमाय नमो नमः ’ ‘ सोमायेदं० ’ अथ प्रधानाज्य होमः - स्रुवेणाज्यमादाय - सावित्र्यै नमो नमः सावित्र्या इदं न० । ब्रह्मणेन० ब्रह्मण इदं न० श्रद्धायै न० श्रद्धाया इदं० मेधायै नमो नमः मेधाया इदं न मम, प्रज्ञायै नमो नमः प्रज्ञाया इदं, धारणायै न० धारणाया इ० सदसस्पतये न० सदसस्पतय इ० अनुमतये न० अनुमतय इ० छन्दोभ्यो न० छन्दोभ्य इदं० । ऋषिभ्यो नमः ऋषिभ्य इदं० ततः स्रुवेण सुच्याज्यमुपस्तीर्य तण्डुलान् द्विरवदाय पात्रस्थमवत्तं चाभिघार्य जुहुयात् - अग्निं पुरस्तान्निहितं यज्ञस्येश्वरमृत्विजम् । आह्वातारं देवतानामीडे यागफलप्रदम् ॥ अग्नये नमो नमः अग्नय इदं न मम ॥१॥ क्षेपकस्तमसामुद्यन्नब्रवीत्तदसौ रविः । निर्वीर्यं वृश्चिकविषं तृणातस्तेऽरसं विषम् ॥ अप्तृणसूर्यभ्यो नमः अप्तृणसूर्येभ्य इदं० ॥२॥ त्वं दीप्तिभिर्मासि तमांसि हंसि त्वं वैद्युतात्माऽद्भय उदेषि वह्ने । दावो वनान्ताच्च तथौषधीभ्यस्त्वमश्मनोऽपीश्वर मानुषाणाम् ॥ अग्नये नमो० अग्नय इदं० ॥३॥ कूजन् पुरः कूज शकुन्त मड्गलं तूष्णीं स्थितोऽस्मासु मतिं शुभां कुरु । यत्कूजसि त्वं कृकरो यथोत्पतन् शस्त्रं सुवीरास्तदचक्ष्महि क्रतौ ॥ शकुन्ताय न० शकुन्तायेदं० ॥४॥ सोमं मम प्रापय वृद्धिमग्ने त्रेतास्वरुपं तनु यज्ञसिद्धयै । उद्दिश्य देवान् सुनवानि दीप्तो भव्येऽध्वरे प्रीणय नस्तनूं स्वाम् ॥ अग्नये० अग्नय इदं० ॥५॥ जमदग्निस्तूयमानौ यज्ञस्थाने निषीदतम् । सोमं च मित्रावरुणौ पिबतं वृष्टिवर्द्धकौ ॥ मित्रावरुणाभ्यां नमो० मित्रावरुणाभ्यामिदं० ॥६॥ सदेरयन्ति शीघ्रगं समन्यवः सुरायतस्ततो भवन्तमीरयन्ति कर्मणात्र याजकाः । अमर्त्यपावकेज्यदीप्यमानमित्वरं नृषु प्रचेतसं सुरा अजीजनन् विभुं च यज्ञगम् ॥ अग्नये नमो० अग्नय इदं० ॥७॥ अधिश्रितं तेजसि तेऽखिलं जगत्तेजस्तदब्धौ ह्रदयेऽन्नसंहतौ । अपां समूहे युधि तत्र चाह्रतो यस्ते रसस्तं मधुरं जुषामहै ॥ अद्भ्यो नमो० अद्भ्य इदं० ॥८॥ नृणां समिद्भिः प्रतिबुद्ध एष यष्टा स्वधेन्वर्थमिव प्रगेऽग्निः । यस्यार्चयः खे प्रसरन्ति दीप्ताः शाखाद्रुमाणामिव सूज्जिहानाः ॥ अग्नये नमो० अग्नय इदं० ॥९॥ यज्ञं नो मरुत इताशु कर्म भूत्यै यज्ञार्हाः शृणुत सुहूतिमेव यादेः । द्योतन्तो नभसि नगा इव प्रवृद्धा दुर्धर्षा भवत विनिन्दकस्य यूयम् ॥ मरुद्भ्यो न० मरुद्भ्य० इदं० ॥१०॥ बद्धं मनस्त्वय्यनलामराणामाद्योऽसि होताऽस्य च कर्मणस्त्वम् । अधृष्यमोजोऽकुरुथास्त्व मेवपराभवार्थं बलिनोऽहितस्य ॥ अग्नये न० अग्नय इ० ॥११॥ यः  स्वीयोऽरातिरथवास्मानन्यो वा जिघांसति । धन्तु सर्वेऽपि देवास्तं ब्रह्मास्तु कवचं मम ॥ देवब्रह्मभ्यो नमो० देवब्रह्मभ्य इदं० ॥१२॥
अरणीभ्यामृत्विजोऽग्निमड्गुलीसक्तरश्मयः । व्यापारयन्तः स्वौ हस्तौ जनयन्ति त्रिरुपिणम् ॥ अग्नयेन० अग्नय इदं० ॥१३॥ इन्द्रा सोमौ जागरुकौ रक्षांसि परिपश्यतम् । हिंसावद्भ्यश्च तेभ्यः स्वमायुधं वज्रमस्य तम् ॥ इंद्रासोमाभ्यां नमो० इन्द्रासोमाभ्यामिदं० ॥१४॥ मास्तुत सोमे शक्रादन्यं शंसत शस्त्राण्यैन्द्राण्येव । ऋत्विज आयुर्माक्षैष्टैवं स्तुध्वमिहेन्द्रं सड्गीभूय ॥ इन्द्रायन० इन्द्रायेदं० ॥१५॥ सोमपानाय नो यज्ञे रुद्रैरेहि मरुत्सख । पीत्वाऽग्न प्रीण यात्मानं सोभरेः स्तुत्यनन्तरम् ॥ अग्नामरुद्भ्यां न० अग्ना मरुद्भ्यां० ॥१६॥ पुरुहूतस्य पानार्थं त्वं सोमाभिषुतः क्षर । धारायास्वादुत मया मादयित्र्या च निर्भरम् ॥ सोमायपवमानाय न० सोमायपवमानायेदं० ॥१७॥ राजन् सोम यदस्ति ते हविः पक्कं पालय तेन नोऽभितः । मास्मान्मा च किमप्यरिर्वधीदस्माकं क्षर सोम वज्रिणे ॥ सोमायपवमानाय न० सोमाय पवमानायेदं० ॥१८॥ अग्निर्महान्निश्यविनष्ट एति ज्वलन्नुषस्याहवनीयदेशम् । स्वर्चिः समिद्धो महसा निजेन दीप्तेन सर्वांश्च पिपर्ति लोकान् ॥ अग्नये न० अग्नय इदं० ॥१९॥ एकोऽस्त्वध्यवसायो वो ह्रद्यप्येकविधानि च । मनः समानं च यथा साहित्यं सुष्ठु वो भवेत् ॥ संज्ञानाय नमो० संज्ञानायेदं न मम ॥२०॥ अथ स्विष्टकृतमवदाय द्विराभिधार्य ‘ समधिकमपि हीनं जातमस्मिन् क्रतौ यत् भवतु सुकृतमग्ने तद्धि सर्वं सुपूर्णम् । प्रचुरदयितदात्रे स्विष्टकृत्ते जुहोमीदमथ सकलकामान् वर्द्धय त्वं सदा मे । स्विष्टकृतेऽग्नये नमो नमः स्विष्टकृतेऽग्नय इदं न मम त्रिन्सधानग्रन्थिं विस्रस्य रुद्राय तन्तिचराय नमो नमः रुद्राय तन्तिचरायेदं न मम । अप उपस्पृश्य सर्वेः सह - धृता त्वं विष्णुना देवि लोकाः सर्वे त्वया धृताः । मां धारय धरे नित्यं पवित्रं कुरु चासनम् ॥ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ अपकामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन ब्रह्मयज्ञं समारभे ॥ शरावे जलं दर्भांश्चादाय सजलदर्भगर्भब्रह्मांजलिं कृत्वा - यो देवः सविताऽस्माकं धियो धर्माधिगोचरे । प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यमुपास्महे ॥ अग्निं पुरस्तान्निहितं यज्ञस्येश्वरमृत्विजम् । आह्वातारं देवतानामीडे योगफलप्रदम् ॥ सोमं मम प्रापय वृद्धिमग्ने त्रेतास्वरुपं तनु यज्ञसिद्ध्यै । उद्दिश्य देवान् सुनवानि दीप्तो भव्येऽध्वरे प्रापय नस्तनूं स्वाम् ॥ ऋग्वेदाय नमः यजुर्वेदाय नमः सामवेदाय नमः अथर्ववेदाय नमः शिक्षायै नमः कल्पाय नमः व्याकरणाय नमः निरुक्ताय नमः ज्योतिषाय नमः छन्दोविचित्यै नमः अध्यात्मविद्यायै नमः इतिहासपुराणेभ्यो नमः तर्कविद्यायै नमः पूर्वमीमांसायै नमः उत्तरमीमांसायै नमः ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ ‘ नमो मरुद्भयो नमो अप्सरेभ्यो नमो वसुभ्यो नम आदित्येभ्यः । नमामि रुद्रान्यमंशक्रवाय्वग्निं च येन्ये बृहतस्तान्नमामि । ’ इत्येकमंत्रं त्रिः पठित्वा ‘ शांतिः शान्तिः शान्तिः उत्सृष्टावै स्वविद्यामन्त्राः ’ इत्युक्त्वा जलं स्पृशेयुः । ततः प्रायश्चित्ताज्याहुतीर्जुहुयात् - अग्ने तुभ्यमयो नाम्ने यज्ञस्यायार्थमस्य वै । प्रायश्चित्ताज्याहुतिं ते होष्यामीमां विभो नमः ॥ अयसेऽग्नये नमो नमः अयसेऽग्नय इदं० देवा यज्ञभुजो ये ते साड्गं कुर्वन्त्विमं मखम् । रक्षन्त्वस्मान् सदा यज्ञे तेभ्य आज्याहुतिं नमः ॥ देवेभ्यो नमो० देवेभ्य इदं० यो विष्णुस्त्रिपदैः सर्वमाक्रम्य भुवनत्रयम् । अधितिष्ठति सर्वात्मा तस्मा आज्याहुतिं नमः ॥ विष्णवे नमो० विष्णव इदं० । अग्नये नमो० अग्नय इदं० । वायवे नमो० वायव इदं० । सूर्याय नमो० सूर्यायेदं० । प्रजापतयेन० प्रजापतय इदं० । य च्च ज्ञातं यदज्ञातं कृतं कर्माध्वरे मया । तद्दोषशमनायाग्ने तुभ्यमाज्याहुतिं नमः ॥ अग्नये नमो० अग्नय इदं० । त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञ एवच । वैगुण्यदोषशान्त्यर्थं तुभ्यमाज्याहुतिं नमः । अग्नये नमो० अग्नय इदं० । कायेन मनसा वाचा जातं यत्किल्बिषं यदि । निषूदयाग्ने तत्सर्वं तुभ्यमाज्याहुतिं नमःअग्नये नमो० अग्नय इदं० । मन्त्रतन्त्रविपर्यासजातदोषनिबर्हणे । प्रायश्चित्तार्थमाज्यस्य मरुद्भ्यस्त्वाहुतिं नमः ॥ मरुद्भ्यो नमो० मरुद्भ्य इदं० । प्रजापतये नमः० प्रजापतय इदं० । विश्वेभ्यो देवेभ्यो नमो० विश्वेभ्यो देवेभ्य इदं० । इति संस्रावं हुत्वा बर्हिषि पूर्णपात्रं निनयेत् । तत्र गड्गादिपुण्यनदीः स्मरन् कुशाग्रैः प्रणीतोदकं सिञ्चेत् । पूर्वस्यां दिशि देवेभ्य ऋत्विग्भ्यो नमः दक्षिणस्यां दिशि मासेभ्यः पितृभ्यो नमः ( अप उपस्पृश्य ) पश्चिमस्यां दिशि ग्रहेभ्यः पशुभ्योनमः उदीच्यां दिशि अद्भ्य ओषधीभ्यो वनस्पतिभ्यो नमः ऊर्ध्वायां दिशि यज्ञाय संवत्सराय प्रजापतये नमः । स्वशिरशि ‘ आपः स्वभावतो मेध्याः शुद्धाः सर्वविशोधनाः । ता अस्मान् पूर्णपात्रस्थाः पूताः कुर्वन्तु मार्जिताः ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं सबाह्याभ्यन्तरं शुचिः । इति मार्जयित्वा नैऋत्यदेशे ‘ द्विषतो हन्मि ’ इति कुशाग्रैरपः सिञ्चेत् । ततो बर्हिष्युत्ताने वामपाणौ प्रत्यड्मुखं पूर्णपात्रजलं निषिच्य ता आपः समुद्रं गच्छन्तीति ध्यात्वा पाणिस्थजलैः आचार्यः सर्वान् ( यजमानं आत्मानंच ) मार्चयेत् । ततोऽग्नेर्वायव्यदेशे तिष्ठन्नुपस्थानं कुर्यात् - अग्ने त्वं नः शिवस्त्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥ परिस्तरणानि विसृज्य परिसमूहनपर्युक्षणाग्न्यर्चनानि कृत्वा गन्धादिभिश्चाग्निं संपूज्य विभूतिं गृहीत्वा धारयेत् । जमदग्नये नमः ललाटे कश्यपाय नमः कण्ठे अगस्तये नमः नाभौ देवेभ्यो नमः दक्षिणस्कन्धे इन्द्राय नमः वामस्कन्घे पर्जन्याय नमः शिरसि । श्रद्धां मेधां यशः० ॥ प्रमादात् कुर्वतां० ॥ प्रायश्चित्तान्यशेषाणि० ॥ यस्य स्मृत्या० ॥ अनेन उत्सर्जनहोमाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP