संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
अथ पिंडप्रदानम्

अथान्हिकादिप्रकरणम् - अथ पिंडप्रदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च गृहपाकेन पायसेन वा सक्तुभिर्वा आमान्नेन फलेन मूलेन वा यथाचारं कार्यम् । अद्येत्यादि० मम पितुः अमुकश्राद्धांगत्वेन तिलोदकपिंडप्रदानं करिष्ये ’ इति संकल्प्य ततः आग्नेयीमुख उपविश्य वामं जान्वाच्य अपसव्येन दर्भमूलेन भूमौ रेखां आग्नेयीसंस्थां कृत्वा अपः स्पृष्ट्वा रेखायां मूलमध्याग्रेषु ‘ पितरवनेनिक्ष्व पितामहावनेनिक्ष्व प्रपितामहावनेनिक्ष्व ’ इति तिलोदकं दत्त्वा तत्र  सकृदाच्छिनैर्दर्भैरवस्तीर्य अग्नौकरणशिष्टद्रव्यसहितं पिंडद्रव्यं पात्रे गृहीत्वा पिंडान् कृत्वा ‘ अस्मत्पितः अमुकवर्मन् अमुकगोत्र वसुरुप अयं ते पिंडो नमः ’ इति दर्भेषु दत्वा तदुपरि तिलोदकं दद्यात् । एवं पितामहप्रपितामहयोर्यथालिंगं नामगोत्राद्युच्चार्य मध्याग्रयोः पिंडद्वयं दद्यात् । ततो ‘ लेपभाग्भ्यो नमः ’ इति दर्भमूले करं मार्जयित्वा सव्यं आचम्य उदगावृत्त्य यथाशक्तिप्राणान्नियम्य ‘ वसंताय नमः ग्रीष्माय० वर्षाभ्यो० शरदे० हेमंताय० शिशिराय० इति षडतून्नमस्कृत्य अपसव्येन ‘ पितृभ्यो नमः ’ इति नमस्कुर्यात् ततो वामावर्तेन श्वासं नियम्य पुनरावृत्य ‘ पितृभ्यो नमः ’ इति नत्वा पुनः पूर्ववत् पिंडेष्ववनेनिक्ष्वेति प्रत्यवनेजनं दत्त्वा ‘ अस्मत्पितरमुकवर्मन् अमुकगोत्र वसुरुप अभ्यंक्ष्व ’ इति अभ्यंजनं त्रिभ्योऽपि दत्त्वा पुनस्तथैव यथालिंगनामगोत्राद्युच्चार्य ‘ अंक्ष्व ’ इति अंजनं दत्वा ‘ पितृभ्यो नमः ’ इति दशासूत्राणि पिंडेषु दत्त्वा ‘ कुलाभिवृद्ध्यर्थं सव्येन पिंडपूजां करिष्ये ’ इति संकल्प्य ‘ पिंडस्थपितृभ्यः वस्त्रं नमः पिंडस्थपितृभ्यः चंदनं नमः ’ एवं नाममंत्रेण पुष्पधूपदीपनैवेद्याचमनीय तांबूलदक्षिणाफलादिसमर्प्य मंत्रपुष्पं दत्त्वा विप्रहस्तेषु सव्यापसव्याभ्यां शिवा आपः संतु संतु शिवा आपः इत्यादि करशुद्धिं कृत्वा सव्यं ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मम पितुः अमुकश्राद्धे तदक्षय्यमस्त्विति भवंतो ब्रुवंतु ’ इति देवद्विजहस्ते उदकं दत्त्वा ‘ अस्त्वक्षय्यं ’ इति द्विजाः । अपसव्यं ‘ अस्मत्पितृपितामहप्रपितामहानां अ० वर्मणां अ० गोत्राणां वसुरुद्रादित्यस्वरुपाणां यद्दत्तं मम पितुः अमुकश्राद्धं ’ इत्यादि पूर्ववदुक्त्वा पित्र्यद्विजकरेषु अक्षय्योदकं दद्यात् । ततः पितृपात्रमुत्तानं कृत्वा सव्येन देवानां सुवर्णं पितृणां रजतं दक्षिणां तन्निष्क्रयद्रव्यं वा ‘ मम पितुः अमुकश्राद्धसांगतासिद्ध्यर्थं इमां दक्षिणां तुभ्यमहं संप्रददे ’ इति देवपूर्वं दत्त्वा कर्ता - ‘ दक्षिणाः पांत्विति भवंतो ब्रुवंतु ’ ‘ पांतु दक्षिणाः ’ इति विप्राः । ततः नानानामगोत्रेभ्यो ब्राह्मणेभ्यः आमान्नहिरण्यादि दत्त्वा आत्मानमलंकृत्य पिंडांश्च नमस्कृत्य ‘ पिंडोद्वासनं करिष्ये ’ इति संकल्प्य ‘ अयोध्या मथुरा माया काशी कांची अवंतिका । पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥ ’ इति पठन् पिंडानुद्वास्य ‘ पिंडस्थाने शांतिः पुष्टिस्तुष्टिश्चास्तु ’ इति साक्षतजलं क्षिप्त्वा कूर्चग्रंथिं विस्रस्य सव्येनैव ‘ उत्तिष्ठंतु पितरः विश्वेदेवैः सह ’ इति द्विजान् दर्भाग्रैः स्पृष्ट्वोद्वास्य नमस्कृत्य अघोराः पितरः संतु सन्त्वघोराः पितरः । गोत्रं नो वर्धतां दातारो नोऽभिवर्धतां संततिश्चनो वर्धतां । श्रद्धा च नोऽमाव्यगमत् बहुदेयं च नोऽस्तु । अन्नं च नो बहु भवेत् अतिथींश्च लभेमहि । याचितारश्च नः संतु मा च याचिष्म कंचन ’ इति प्रार्थ्य विप्राः ‘ तथास्तु ’ इति ब्रूयुः । आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छंतु तथा राज्यं प्रीता नृणां पितामहाः ॥ ’ एताः सत्या आशिषः संतु पितुः अमुकश्राद्धं गयाकृतश्राद्धफलमस्तु पितृणामक्षय्या तृप्तिरस्तु तथास्त्विति विप्राः । इत्याशिषो गृहीत्वा - यः कश्चिच्छ्राद्धयज्ञस्य प्रोक्तो मन्वादिभिर्विधिः । असौ युष्मत्प्रसादेन संपूर्णः सकलोऽस्तु मे ॥ ‘ अस्तु संपूर्णसकलः ’ इति विप्राः ॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींल्लोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ अनेन मम पितुः अमुकश्राद्धयज्ञेन भगवान् पित्रादिरुपी जनार्दनवासुदेवः प्रीयताम् । तत्सद्ब्रह्मार्पणमस्तु ॥ विष्णवे नम इति त्रिरुच्चार्य द्विराचम्य पवित्रं विस्रस्य पूर्वोक्तविधिना वैश्वदेवं कृत्वा श्राद्धदिनात् परेऽहनि श्राद्धांगभूतं तिलतर्पणं वक्ष्यमाण प्रकारेण कुर्यात् सद्यो वा ॥ इष्टैः सहभुंजीत ॥ ॥ इति दिवाकरकृतकृत्यदिवाकरे मध्यमांशौ पार्वणश्राद्धप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP