संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| श्राद्धांगतर्पणम् अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - श्राद्धांगतर्पणम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत श्राद्धांगतर्पणम् Translation - भाषांतर आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा अस्मत्पितुः अमुकश्राद्धांगभूतं तिलोदकतर्पणं परेऽहनि करिष्ये ( श्राद्धदिन एव कर्तव्ये तु परेऽहनि करिष्यमाणं पितृतर्पणं अद्यैवाऽपकर्षेण सद्यः करिष्ये ) इति संकल्प्य यवोदकेन ‘ पुरुरवार्द्रवसंज्ञकान् विश्वान् देवांस्तर्पयामि ’ इत्यंजलिद्वयं दत्त्वा द्वितीयविश्वान् देवांस्तर्पयामि ’ । अपसव्यं - ‘ अस्मत्पिता अमुकवर्मा अमुकगोत्रः वसुरुपस्तृप्यताम् इति पितृतीर्थेनसकुशतिलोदकांजलिं त्रिर्दद्यात् । एवं अस्मत्पितामहः अमुकवर्मा अमुकगोत्रः रुद्ररुपस्तृप्यताम् अस्मत्प्रपितामहः अमुकवर्मा अमुकगोत्रः आदित्यरुपस्तृप्यताम् । ‘ आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः । तृप्यंतु पितरः सर्वे मातृमातामहादयः ॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् । ’ इत्यंजलिं दत्त्वा ‘ ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णंतु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ ’ इति पठित्वा वस्त्रं निष्पीड्य सव्येन - एको विष्णुर्महद्भूतं० । अनेन मम पितुः अमुकश्राद्धांगतिलोदकतर्पणेन भगवान् पितृरुपी जनार्दनवासुदेवः प्रीयतां तत्सद्ब्रह्मार्पणमस्तु विष्णवे नम इति त्रिरुक्त्वा आचम्य पवित्रं विसृजेत् ॥ इति कृत्यदिवाकरे मध्यांशौ श्राद्धांगतर्पणम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP