संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| नित्यश्राद्धम् अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - नित्यश्राद्धम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत नित्यश्राद्धम् Translation - भाषांतर आचम्य पवित्रपाणिः देशकालौ स्मृत्वा ‘ नित्यश्राद्धं करिष्ये ’ इति संकल्प्य । नित्यश्राद्धं देवहीनं षडदैवतम् अपसव्यं - अस्मत्पितृपितामहप्रपितामहानां अमुकगोत्राणां अमुकवर्मणां सपत्नीकानां वसुरुद्रादित्यस्वरुपाणां अस्मत् मातामहप्रमातामहवृद्धप्रमातामहानां अमुकगो० अमुकवर्मणां सपत्नीकानां वसु० स्थाने क्षणः कर्तव्यः इति क्षणं दत्त्वा अस्मत्पित्रादयो मातामहादयश्च इदं वः पाद्यं इति दत्त्वा आचम्योदड्मुखं कुशासने द्विजमुपवेश्य अस्मत्पितृणां मातामहादीनां चेदमासनं पित्र्ये क्षणः क्रियतां प्राप्नोतु भवान् प्राप्नवानि इत्युक्ते अस्मत्पितरो मातामहादयश्च एष वो गंधः । अस्मत्पितरो माताम० इमानि वः पुष्पाणि तुलसीपत्रसहितानि । अस्मत्पितरो माताम० एष वो धूपः । अस्मत्पितरो माताम० एष वो दीपः । अस्मत्पितरो माताम० आच्छादनार्थे इदं किंचिव्द्यवहारिकं द्रव्यं० पूगी फलं । ‘ इति दत्त्वा एते उपचाराः परिपूर्णा भवंतु ’ इति वाचयित्वा वर्तुलं चतुष्कोणं वा मंडलं कृत्वा तत्र पात्रं निधाय तस्मिन् द्विगुणं यथासंभवं वा आमान्नमुपकल्प्य प्रोक्ष्य पात्रमालभ्य तिलान् विकीर्य आमान्नेंऽगुष्ठं दत्त्वा अस्मत्पितरः अमुकगोत्राः अमुकवर्माणः वसुरुद्रादित्यस्वरुपाः अस्मत् मातामहादयः अमुकगोत्राः अमुकवर्माणः वसु० इदं वः आमान्नं द्विगुणं समं वा यथासोपस्करं अस्य ब्राह्मणस्य भोजनपर्याप्तममृतरुपेण संपद्यंतां नमो दत्तमक्षय्यमस्तु । तत्सद्द्ब्रह्मार्पणमस्तु इति । नैवेद्यं निवेद्य मधुश इति त्रिरुक्त्वा ततः सुप्रोक्षितमस्तु शिवा आपः संतु सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु पितरः स्वस्तीति ब्रूत । पितृणां यद्दत्तं तदक्षय्यमस्तु दक्षिणां दद्यान्न वा । एतावदशक्तौ वैश्वदेवपित्र्यबलिनैव नित्यश्राद्धसिद्धिः । नित्यश्राद्धं देशकालनियमहीनं पुनर्भोजनब्रह्मचर्यादिकर्तृभोक्तृनियमरहितं यादृशतादृशेनैवानिषिद्धाऽऽमेन दिवैव । रात्रौ प्रहरपर्यंतं वा कार्यम् । स्वाशक्तौ पुत्रादिप्रतिनिधिना कारयेत् सूतकादौदर्शवल्लोपः ॥ ॥ इतिकृत्यदिवाकरे नित्यश्राद्धम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP