संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| भोजनविधिः अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - भोजनविधिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत भोजनविधिः Translation - भाषांतर बालवृद्धगर्भिण्यातुरसखीबांधवादीन् संभोज्य पाणिपादं प्रक्षाल्याचम्य शुचौ देशे रहसि भूमौ मंडलं कृत्वा कांस्यादिपात्रे परिविष्टमन्नं प्राड्मुखोपविष्टो मौनी घृताक्तं प्रोक्ष्य ‘ धर्मराजाय नमः चित्राय नमः चित्रगुप्ताय० प्रेतेभ्यो नमः ’ इति बलिं दक्षिणतो भूमौ दत्त्वा तदुपरि जलं दत्त्वा ‘ अद्भ्यो नमः ’ इति जलं प्राश्य देवतीर्थेन सांगुष्ठेन तूष्णीं ‘ नमः ’ इत्यनेन वा पंचग्रासान् प्राश्य यथासुखं भुंजीयात् । अन्ये भोजननियमाः द्विजवदेव ज्ञेयाः । भोजनांते मुखपाणिपादं प्रक्षाल्य द्विराचम्य जानुनी स्पृष्ट्वा पुनराचम्य अगस्तिं कुंभकर्णं च शनिं च वडवानलम् । आहारपरिणामार्थं स्मरामि च वृकोदरम् ॥ इत्युदरं संस्पृश्य तांबूलं प्राश्य पुराणश्रवणादिनाऽहः शेषं निनयेत् ॥ ततो रात्रौ रविपर्वसंक्रमव्यतीपातवैधृतिश्राद्धतत्पूर्वदिनभिन्नरात्रौ द्वितीयवारं भुक्त्वा यामोत्तरं अगस्तये नमः माधवाय० मुचुकुंदाय० कपिला० आस्तिकाय० इति नत्वा प्राच्यां दक्षिणतो वा शिरः कृत्वा स्वपेत् । तत्र स्त्रिया ऋतावाद्यदिनचतुष्कैकादश - त्रयोदशवर्ज - षोडशदिनमध्ये चतुर्थ्यष्टमी षष्ठी चतुर्दशी पर्वद्वयश्राद्धतत्पूर्वदिनभिन्नायां रात्रौ शनिरविभौमवर्जं भरणी कृत्तिकार्द्रा मघा पूर्वा विशाखा ज्येष्ठा मूल पूर्वाषाढा पूर्वाभाद्रपदा जन्मर्क्षसंक्रमपातवैधृतिवर्जं समरात्रौ संगं कृत्वा मूत्रात्र्त्रिगुणं शौचं स्नानं च कुर्यात् । स्त्रिया अनृतौ संगे कृते स्नानवर्जं शौचं कृत्वा स्वपेत् । इदमाह्निकं प्रत्यहं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ क्षत्रियादित्रैवर्णाह्निकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP