संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ त्रयोविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ त्रयोविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

दृष्टाऽत्मानं प्रवयसमेकदा वैन्य आत्मवान ।

आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः ॥१॥

जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम ।

निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान ॥२॥

आत्मजेष्वात्मजं न्यस्य विरहाद्रुदतीमिव ।

प्रजासु विमनस्स्वेकः सदारोऽगात्तपोनम ॥३॥

तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।

आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥४॥

कन्दमुलफलाहरः शुष्कपर्णाशनः क्वच्चित ।

अब्भक्षः कतिचित्पक्षान वायुभक्षस्ततः परम ॥५॥

ग्रीष्मे पंचतपा वीरो वर्षास्वासारषाण्मुनिः ।

आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥६॥

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितनिलः ।

आरिराधयिषुः कृष्णमचरत्तप उत्तमम ॥७॥

तेन क्रमानुसिद्धेन ध्वस्तकर्मामलाशयः ।

प्राणायामैः संनिरुद्धषडवर्गश्छिन्नबन्धनः ॥८॥

सनत्कुमारो भगवान यदाहाध्यात्मिकं परम ।

योगं तेनैव पुरुषमभजत्पुरुषर्षभः ॥९॥

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा ।

भक्तिर्भगवति ब्रह्माण्यनन्यविषयाभवत ॥१०॥

तस्यानया भगवतः परिकर्मशुद्ध सत्वात्मनस्तदनु संस्मरणानुपुत्या ।

ज्ञानं विरक्तिमदभुन्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम ॥११॥

छिन्नान्यधीरधिगतत्मगतिर्निरीहस्तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।

तावन्न योगगतिभिर्यतिरप्रमतो यावद्गदाग्रजकथासु रतिं न कुर्यात ॥१२॥

एवं स वीरप्रवरः संयोज्यात्मानमात्मानि ।

ब्रह्माभुतो दृढं काले तत्याज स्वं कलेवरम ॥१३॥

सम्पीड्य पायुं पार्ष्णिभ्यां वायुम्त्सारयत्र्छनैः ।

नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरः कण्ठशीर्षणि ॥१४॥

उत्सर्पयंस्तु तं मूर्ध्रि क्रमेणावेश्य निःस्पृहः ।

वायुं वायौ क्षितौ कायं तेजस्तेजस्ययुयुजत ॥१५॥

खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।

क्षितिमम्भासि तत्तेजस्यदो वायौ नभस्यमुम ॥१६॥

इन्द्रीयेषु मनस्तानि तन्मात्रेषु यथोद्धवम ।

भुतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥१७॥

तं सर्वगुणविन्यासं जीवे मायामये न्यधात ।

तं चानुशयामात्मस्थमसावनुशयी पुमान ।

ज्ञानवैराग्यवीर्येण स्वरुपस्थोऽजहात्प्रभुः ॥१८॥

अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम ।

सुकुमार्यतदर्हा च यत्‍पदभ्यां स्पर्शनं भुवः ॥१९॥

अतीव भर्तुव्रतधर्मनिष्ठय शुश्रुषया चारषदेहयात्रया ।

नाविन्दतार्ति परिकार्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृत्तिः ॥२०॥

देहं विपन्नखिलचेतनादिकं पत्युः पृथिव्यादयितस्य चात्मनः ।

आलक्ष्य कित्र्चिच्च विलप्य सा सती चितामथारोपदद्रिसानुनि ॥२१॥

विधाय कृत्यं हृदिनीजलाप्लुता दत्वोदकं भर्तुरुदारकर्मणः ।

नत्व दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादी ॥२२॥

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम ।

तुष्टुवुर्वरदा देवैदेवपत्‍न्यः सहस्त्रशः ॥२३॥

कुर्वत्य कुसुमासारं तस्मिन्मन्दरसानुनि ।

नदत्स्वमरतुर्येषु गृनन्ति स्म परस्परम ॥२४॥

देव्य ऊचुः

अहो इयं वधुर्धन्या या चैवं भूभुजां पतिम ।

सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधुरिव ॥२५॥

सैषा नुनं व्रजत्युर्ध्वमनु वैन्य पतिं सती ।

पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥२६॥

तेषां दुरापं किं त्वन्यन्मर्त्यानांभगवत्पदम ।

भुवि लोलायुशो ये वै नैष्कर्म्य साधयन्त्युत ॥२७॥

स वचिंतो बतात्मध्रुक कृच्छ्रेण महता भुवि ।

लब्ध्वापवर्ग्य मानुष्यं विषयेषु विषज्जते ॥२८॥

मैत्रेय उवाच

स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधुः ।

यं वा आत्मविदां धुर्यौ वैन्यः प्रापाच्युताशयः ॥२९॥

इत्थंभुतानुभावोऽसौ पृथुः स भगवत्तमः ।

कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥३०॥

य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत ।

श्रावयेच्छृणुयाद्वपि स पृथोः पदवीमियात ॥३१॥

ब्राह्मणो ब्रह्मावर्चस्वी राजन्यो जगतीपतिः ।

वैश्यः पठन विट्यपि स्याच्छुदः सत्तमतामियात ॥३२॥

त्रिःकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदुता ।

अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥३३॥

अस्पष्टकीर्तिः सुयशा मुर्खो भवति पण्डितः ।

इदं स्वत्स्ययनं पुंसाममंगल्यनिवारणम ॥३४॥

धन्यं यशस्यमायुष्यं स्वार्ग्यं कलिमलापहम ।

धर्मार्थकाममोक्षांणां सम्यक सिद्धिमभीप्सुभिः ।

श्रद्धयैतदनुश्राव्यं चतुर्णांकारणं परम ॥३५॥

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान ।

बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥३६॥

मुक्तान्यसंगो भगवत्यमलां भक्तिमुद्वहन ।

वैन्यस्य चरितं पुण्यं श्रृणुयाच्छ्रावयेत्पठेत ॥३७॥

वैचित्रवीर्याभिहितं महन्माहात्म्यसुचकम ।

अस्मिन कृतमतिर्मर्त्यः पार्थवीं गतिमाप्रुयात ॥३८॥

अनुदिनमिदमादरेण श्रृण्वन पृथुचरितं प्रथयन विमुक्तसंगः ।

भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP