संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ पंचमोऽध्यायः

चतुर्थः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

भवो भवान्या निधनं प्रजापतेरसत्कृताया अवगम्य नारदात ।

स्वपार्षदसैन्यं च तदध्वरर्भुभिर्विद्रावितं क्रोधमपारमादधे ॥१॥

क्रुद्धः सुदष्टोष्ठपुटः स धूर्जटिर्जटां तडिद्रह्निसटोग्ररोचिषम ।

उत्कृत्य रुद्रः सहसोत्थितो हसन गम्भीरनादो विससर्ज तां भुवि ॥२॥

ततो‍ऽतिकायस्तनुवा स्पृशन्दिवं सहस्रवाहुर्घनरुक त्रिसुर्यदृक ।

करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥३॥

तं किं करोमीति गृणन्तमाह बद्धात्र्जलिं भगवान भूतनाथः ।

दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे ॥४॥

आज्ञप्त एवं कुपितेन मन्युना स देवदेव परिचक्रमे विभुम ।

मेने तदाऽऽत्मानमसंगरंहसा महियसां तात सहः सहिष्णुम ॥५॥

अन्वीयमानः स तु रुद्रपार्षदै र्भुशं नदद्भिर्व्यनदत्सुभैरवम ।

उद्यम्य शूलं जगदन्तकान्तकं स प्रादवद घोषणभूषणाड्‌घ्रिः ॥६॥

अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम ।

तमः किमेतत्कुत एतद्रजोऽभूदिति द्विजा द्विजपत्‍न्यश्च दध्युः ॥७॥

वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिजीवति होग्रदण्डः ।

गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥८॥

प्रसूतिमिश्राः स्त्रिया उद्विग्रचित्ता ऊचुर्विपाको वृजिनस्यैष तस्य ।

यत्पश्यन्तीनां दुहितृणां प्रजेशः सुतां सतीमवदध्यावनागाम ॥९॥

यस्त्वन्न्तकाले व्युप्तजटाकलापः स्वशुलसूच्यर्पितदिग्गजेन्द्रः ।

वितत्य नृत्यत्युदितास्त्रदोर्ध्वजानुच्चादृहासस्तनयित्नुभिन्नदिक ॥१०॥

अमर्षयित्वा तमसह्यातेजसं मन्युप्लुतं दुर्विषहं भ्रुकुट्या ।

करालदंष्ट्राभिरुदस्तभागणं स्यात्स्वस्ति किं कोपयतो विधातुः ॥११॥

बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः ।

उप्तेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक ॥१२॥

तावत्स रुद्रानुचरैर्मखो महान नानायुधैर्वामनकैरुदायुधैः ।

पिंगैः पिशगैर्मकरोदराननैः पर्याद्रवाद्भिर्विदुरान्वरुध्यत ॥१३॥

केचिद्वभत्र्जुः प्राग्वंशं पत्‍नीशालां तथापरे ।

सद आग्नीध्रशालां च तद्विहारं महानसम ॥१४॥

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन ।

कुण्डेष्वमुत्रयन केचिद बिभिदुर्वेदिमेखलाः ॥१५॥

अबाधन्त मुनीनन्य एके पत्‍नीरतर्जयन ।

अपरे जगृहुर्देवान प्रत्यासन्नान पलायितान ॥१६॥

भृंगु बबन्ध मणिमान वीरभद्रः प्रजापतिम ।

चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत ॥१७॥

सर्व एवर्त्विजो दृष्टवा सदस्या सदिर्वोकसः ।

तैरद्यमानाः सुभृशं ग्रावाभिर्नैकधाद्रवन ॥१८॥

जुह्वतः स्रुवहस्तस्य श्मश्रुणि भगवान भवः ।

भृगोर्लुलुत्र्चे सदसि योऽहसच्छमश्रु दर्शयन ॥१९॥

भगस्य नेत्रे भगवान पातितस्य रुषा भिवि ।

उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसुसुचत ॥२०॥

पूष्णश्चापातयद्दन्तान कालिगंस्य यथा बलः ।

शप्यमाने गरिमणि योऽहसद्दर्शयन्दतः ॥२१॥

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तु नाशक्रोत त्र्यम्बकस्तदा ॥२२॥

शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम ॥२३॥

दृष्ट्वा संज्ञपनं योगं पशुनां स पतिर्मखे ।

यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥२४॥

साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम ।

भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः ॥२५॥

जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षितः ।

तद्देवयजनं दग्ध्वा प्रातिष्ठद गुह्याकालयम ॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वसो नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP