संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ त्रयोदशोऽध्यायः

चतुर्थः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम ।

प्ररुढभावो भगाद्वत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥१॥

विदुर उवाच

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥२॥

मन्ये महाभागावतं नारदं देवदर्शनम ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥३॥

स्वधर्मशीलैः पुरुषैर्भगवान यज्ञपुरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किलः ॥४॥

यस्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यां शुश्रुषवे ब्रह्मान कात्स्न्यैनाचष्टुमर्हसि ॥५॥

मैत्रेय उवाच

ध्रुवस्य चोत्कलः पुत्र पितारि प्रस्थिते वनम ।

सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ॥६॥

स जन्मनोपाशन्तात्मा निःसंग समदर्शनः ।

ददर्श लोक विततमात्मानं लोकमात्मनि ॥७॥

आत्मानं ब्रह्मा निर्वाणं प्रत्यस्तमितविग्रहम ।

अवबोधरसैकात्म्यमानन्दमनुसन्ततम ॥८॥

अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।

स्वरुपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥९॥

जडान्धबधिरोन्मत्तमुकाकृतिरतन्मतिः ।

लक्षितः पथि बालांना प्रशान्तार्चिरिवानलः ॥१०॥

मत्वां तं जडमुन्मत्तं कुलवृद्धां समन्त्रिणः ।

वत्सरं भुपतिं चक्रुर्यवीयांस भ्रमेः सुतम ॥११॥

स्वर्वीथिर्वत्सरस्येष्टा भार्यासुत षडात्मजान ।

पुष्पार्णं तिग्मकेतुं च इषमुर्जं वसुं जयम ॥१२॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभुवतुः ।

प्रातर्मध्यान्दिनं सायमिति ह्यासन प्रभासुताः ॥१३॥

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥

स चक्षुः सुतमाकूत्यां पन्त्यां मनुमवाप ह ।

मनोरसुत महिषी विरजान्नडवला सुतान ॥१५॥

पुरुं कुत्सं त्रितं द्युमं सत्यवन्तमृतं वतम ।

अग्निष्टोममतीरात्रं पद्युम्नं शिबिमुल्मुकम ॥१६॥

उल्मुकोऽजनयत्पुत्रान्पुष्करिण्या षडुत्तमान ।

अंगं सुमनसं ख्यातिं क्रतुमंगिरसं गयम ॥१७॥

सुनीथांगस्य या पत्‍नी सुषुवे वेनमुल्बणम ।

यद्दौः शील्यात्स राजर्षिर्निर्विण्णोअ निरगात्पुरात ॥१८॥

यमंगः शेपु कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भुयस्ते मनन्थुर्दक्षिणं करम ॥१९॥

अराजकेतदा लोके दस्युभिः पीडिता प्रजाः ।

जातो नारायणांशेन पृथुराद्यःक्षितीश्वरः ॥२०॥

विदुर उवाच

तस्य शीलनिधेः साधोर्ब्रह्माण्यस्य महात्मनः ।

राज्ञः कथमभूद्दृष्टा प्रजा यद्विमना ययौ ॥२१॥

किं वांहो वेन उद्दिश्य ब्रह्मादण्डमयुयुजन ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥२२॥

नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यद्सौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥२३॥

एतदाख्याहि मे ब्रह्मान सुनीथात्मजचेष्टितम ।

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥२४॥

मैत्रेय उवाच

अंगोऽश्वमेधं राजर्षिराजहार महाक्रतुम ।

मजग्मुर्देवतास्तस्मिन्नाहुता ब्रह्मावादिभिः ॥२५॥

तमुचुर्विस्मितास्तत्र यजमानमघर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥२६॥

राजन हवीं ष्यदुष्टानि श्रद्धाऽऽसादितानि ते ।

छन्दास्ययातयामानि योजितानि धृतव्रतैः ॥२७॥

न विदामेह देवांना हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान स्वान य देवाः कर्मसाक्षिणः ॥२८॥

मैत्रेय उवाच

अंगो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥२९॥

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिग ।

सदसस्पतयो ब्रुत किमवद्यं मया कृतम ॥३०॥

सदसस्पतय ऊचुः

नरदेवेह भवतो नाघं तावन्मनाक स्थितम ।

अस्तेकं प्राक्तनमघं यदिहेदृक त्वमप्रजः ॥३१॥

तथा साधय भंद्रं ते आत्मानं सुप्रजं नृपं ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक ॥३२॥

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद्यज्ञपुरुषः साक्षादपत्यात हरिर्वृतः ॥३३॥

तांस्तान कामान हरिर्दद्याद्यान यन कामयते जनः ।

आराधितो तथैवैष यथा पूंसा फलोदयः ॥३४॥

इति व्यवसिता विप्रास्त्सस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन शिपिविष्टाय विष्णवे ॥३५॥

तस्मात्पुरुष उत्तस्थी हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम ॥३६॥

स विप्रानुमतो राजा गृहीत्वात्र्जलिनौदनम ।

अवघ्राय मुदा युक्तः प्रादात्पन्या उदारधीः ॥३७॥

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥३८॥

स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्माशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥३९॥

स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान दीनान वेनोऽसावित्यरौज्जनः ॥४०॥

आक्रीडे क्रीडतो बालान वयस्यानतिदारुणः ।

प्रसह्या निरनुक्रोशः पशुमारममारयत ॥४१॥

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः ॥४२॥

प्रायेणाभ्यार्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम ॥४३॥

यतः पापीयसी कीर्तिरधर्मश्च महन्नृणाम ।

यतो विरोधः सर्वेषा यत आधिरनन्तकः ॥४४॥

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥४५॥

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात ।

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥४६॥

एवं स निर्विण्णमना नृपो गृहा न्निशीथ उत्थाय महोदयोदयात ।

अलब्धनिद्रोऽनुपलक्षितो नृभिर्हिंत्वा गतो वेनसुवं प्रसुप्ताम ॥४७॥

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितात्मसुहृदगणादयः ।

विचिक्युरुर्व्यामतिशोककातरा यथा निगुढं पुरुषं कुयोगिनः ॥४८॥

अलक्षयन्तः पदवीं प्रजापतेर्हतोद्यमाः प्रत्युपसृत्य ते पुरीम ।

ऋषीन समेतानभिवन्द्य साश्रवो न्यवेदयन पौरव भर्तृविप्लवम ॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP