संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथचौलम्

धर्मसिंधु - अथचौलम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


जन्मतोगर्भतोवाब्देप्रथमेऽथद्वितीयके । तृतीयेपञ्चमेवापिचौलकर्मप्रशस्यते १ यद्वासहोपनीत्यात्रकुलाचाराह्यवस्थितिः ।

माघफाल्गुनवैशाखज्येष्ठेमासिशुभंस्मृतम् २ जन्ममासेऽधिमासेनज्येष्ठेज्येष्ठस्यनोभवेत् ।

शुक्लपक्षःशुभःप्रोक्तःकृष्णश्चान्त्यत्रिकविना ३ द्वितीयाथतृतीयाचपञ्चमीसप्तमीशुभा ।

दशम्येकादशीवापित्रयोदश्यपिशस्यते ४ रविभौमार्किशनयोबाराविप्रादिवर्णतः ।

गुरुशुक्रबुधाः शुक्लेसोमः सर्वशुभावहाः ५ आश्विनीमृगपुनर्वसुपुष्यहस्ताचित्रास्वातीज्येष्ठाश्रवणधनिष्ठाशततारकारेवत्यःशुभा

क्षौरप्रयाणभैषज्येजन्मर्क्षवर्जयेत्सदा ।

आयुःक्षयोनिराधाग्नित्र्युत्तरारोहिणीमघे १ सिंहस्थेगुरौचौलादिशुभकर्मनकार्यम् सूनोर्मातरिगर्भिण्यांचूडाकर्मनकारयेत् ।

पञ्चमाब्दात्प्रागूर्ध्वंतुगर्भिण्यामपिकारयेत १ सहोपनीत्याकुर्याच्चेत्तदादोषांनविद्यते ।

पृथकचूडाकर्मपृथगुपनयनंचमातरिगर्भिण्यांनकार्यम् उभयोःसहानुष्ठानेतुनदोषः गर्भिण्यामपिपञ्चममासपर्यन्तनदोषः

पञ्चममासादधःकुर्यादतऊर्ध्वंनकारयेदित्युक्तेः ज्वरितस्यचौलादिमङ्गलनकार्यम् विवाहव्रतच्डासुमातायदिरजस्वला ।

तस्याःशुद्धेःपरंकार्यमङ्गलंमनुरब्रवीत् । नान्दीश्राद्धोत्तरजस्वलायांशान्तिंकृत्वाकार्यम्

केचित्तुमुहूर्तान्तराभावेप्रारम्भात्प्रागपिरजोदोषेश्रीपूजनादिविधिनाशान्तिकृत्वाकार्यमित्याहुः

मातुलपितृव्यादौकर्तरितत्पत्न्यांरजस्वलायामपिमङ्गलनेतिसिन्धुः

त्रिपुरुषात्मककुलेषण्मासमध्येमौञ्जीविवाहरूपमङ्गलोत्तरंमुण्डनाख्यंचूडाकर्मादिनकार्यम् संकट

तुअब्दभेदे कार्यम् चतुःपुरुषपर्यन्तं कुलेसपिण्डीकरणमासिकश्राद्धान्तप्रेतकर्मसमाप्तेः

प्राक्‌चूडाकर्मादिकमाभ्युदयिकंकर्मनकार्यम् एकमातृजयोरेकेवत्सरेऽपत्ययोर्द्वयोः । नसंस्कारः समानःस्यान्मातृभेदेविधीयते १

प्रारम्भोत्तरंसूतकप्राप्तौकूष्माण्डीभिऋग्भिर्घृतंहुत्वागांदत्त्वाचूडोपनयनोद्वाहादिकमाचरेत्

अत्रविशेषोविवाहप्रकरनेवक्ष्यते मध्येमुंख्याएकाशिखाअन्याश्चपार्श्वादिभागेष्विति

यथाकुलाचारंप्रवरसंख्ययाशिकाश्रचूडासमयेकार्याःउपनयनकालेमध्यशिखेतरशिखानांवपनंकृत्वामध्यभागे

एवोपनयनोत्तरंशिखाधार्या चौलकर्मणिजातकर्मणिचभोजने सांतपनकृच्छ्रंप्रायश्चित्तम् अन्येषुसंस्कारेषुउपवासेनशुद्धिः

चूडान्ताःसर्वेसंस्काराः स्त्रीणाममन्त्रकाः कार्याः होमस्तुसमन्त्रकः होमोप्यमन्त्रकःकार्योनवाकार्यइतिवृत्तिकृदादिमतम्

एवंशूद्रस्याप्यमन्त्रकंचौलम् इदानीशिष्टेषुस्त्रीणांचूडादिसंस्कारकरणंनदृश्यते विवाहकाले चूडादिलोपप्रायश्चत्तमात्रंकुर्वन्ति

चौलोत्तरंमासत्रयपर्यन्तंसपिण्डेःपिण्डदानंतिलतर्पणंचनकार्यम् महालयेगयायांपित्रोःप्रत्यब्दश्राद्धेचपिण्डदानादिकार्यम् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP