संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथसिनीवालीकुहूजननशान्तिः

धर्मसिंधु - अथसिनीवालीकुहूजननशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसिनीवालीकुहूजननशान्तिः तत्रामावास्यायाःप्रथमोयामःसिनीवाली अन्त्योपान्त्ययामौकुहूः

मध्यवर्तिपञ्चयामादर्शइतिकेचित् अपरेतुचतुर्दशीमात्रयुतेऽहोरात्रेवर्तमाना अमावास्यासिनीवाली

प्रतिपन्मात्रयुतेऽहोरात्रेवर्तमानाकुहूः तेनामाया

वासरत्रयस्पशित्वलक्षणदिनवृद्ध्यभावेसूर्योदयस्पर्शत्वाभावलक्षणक्षयाभावेचदर्शोनास्त्येव

उदयात्पूर्वाहोरात्रेवर्तमानायाः सिनीवालीत्वात् उदयोत्तरंवर्तमानायाःकुहुत्वात्

दिनक्षयेसर्वाप्यमादर्शसंज्ञानतत्रसिनीवालीकुहूभागौ केवलचतुर्दशीकेवलप्रतिपद्युक्तत्वाभावात्

एवंदिनवृद्धौत्रिदिनस्पर्शमध्यदिनस्थाषष्टिनाडीमितामावास्यादर्शसंज्ञा चतुर्दश्यादियोगाभावात्

पूर्वोत्तरदिनस्थौभागौसिनीवालीकुहूसंज्ञावित्याहुःइदंमयूखे स्पष्टम् सिनीवाल्यांप्रसूतास्याद्यस्यभार्यापशुस्तथा ।

गजाश्वामहिषीचैवशक्रस्यापिश्रियंहरेत् १ गोपक्षिमृगदासीनांप्रसूतिरपिवित्तह्रतू ।

कुहूप्रसूतिरत्यर्थं सर्वदोषाकरीस्मृता २ यस्यप्रसुतिरेतेषांतस्यायुधननाशनम् ।

शान्त्यभावेईतित्यागमत्रजातोनसंशयः ३ अत्यागेनाशयेत्किंचित्स्वयंवानाशमाप्नुयात् ।

सिनीवालीजननसूचितेत्यादिःकुहूजननसूचितारिष्टनाशेत्यादिश्चसंकल्पः कुहूजननेगोप्रसवोपीतिकेचित्

अत्रोभयत्रापिचतुर्दशीशान्तिवच्छतच्छिद्रकलशसहिताः पञ्चकलशाः मध्येरुद्रःप्रधानदेवता

इन्द्रःपितरश्चपार्श्वदेवते इति प्रतिमात्रयम् इन्द्रस्यपितृणांचप्रधानरुद्रन्यूनसंख्ययाप्रधानोक्तसर्वद्रव्यौर्होमः

अवशिष्टान्वाधानद्वतोहश्चतुर्दशीशान्तिवत् प्रधानदेवतापूजोत्तरंगोवस्त्रस्वर्णदानानिकृत्वा

गोभूतिलहिरण्याज्यवासोधान्यगुंडानिच । रौप्यंलवणमित्येतद्दशदानानिदापयेत् १ क्षीराज्यगुडदानंचकृत्वाहोमंसमारभेत् ।

एतनिदानानिऋत्विग्भ्योदेयानि तेनान्तेपृथक्‌दक्षिनादानंनंकार्यमअतएवात्रगवादेर्दक्षिणारूपत्वात्सदक्षिणंदानंनभवति

अन्यत्र्दशदानादीनांसदक्षिणं दानंकार्यम् अथैतेषांमानम् भुवोमानंगोचर्म सप्तहस्तोदण्डः

त्रिशद्दण्डावर्तनम् दशवर्त्तनानिगोचर्म तिलानांद्रोणः सुवर्णरजतयोर्दशमाषतदर्धतदर्धान्यतमम् आज्यस्य

चत्वारिंशत्पलानि वाससस्त्रिहस्तत्वम् धान्यस्यपञ्च द्रोणाः एवंगुडलवणयोः एतावत्प्रमाणाशक्तौ

नित्यनैमित्तिके यथाशक्ति देयानि यथाशक्ति हिरण्यं वा तत्तत्प्रतिनिधित्वेनहिरण्यगर्भेनिमन्त्रेणदेयम्

नैमित्तिकादेरकरणेप्रत्यवायात् अभ्युदयादिफलार्थंतुदश्दानानिशक्तिंविनानकार्याणीतिभाति

होमांते बलिदानाभिषेकादिइतिसिनीवालीकुहूशान्तिः

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP