संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
सूर्यावलोकन

धर्मसिंधु - सूर्यावलोकन

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तृतीयेमासिसूर्यावलोकनं चतुर्थेमासिअन्नप्राशनकालेवानिष्क्रमणम् तत्रकालः शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकविना ।

रिक्ताषष्ठ्यष्टमीदर्शद्वादशीचविवर्जिता १ गुरुशुक्रबुधवाराः

आश्विनीरोहिणीमृगपुष्योत्तरात्रयहस्तधनिष्ठाश्रवणरेवतीपुनर्वस्वनुराधानक्षत्राणिचशस्यानि

इदंनिष्क्रमणंनित्यंकाम्यम् सूर्यावलोकननिष्क्रमणयोर्नान्दीश्राद्धंकृताकृतम् अथ भूम्युपवेशनकालः

पञ्चममासेनिष्क्रमोक्ततिथ्यादौभौमबलेसतिभूम्युपवेशनंकार्यम् अथान्नप्राशनकालः

षष्ठेऽष्टमेदशमेद्वादशेवामासेपुर्णेवत्सरेवापुंसोन्नप्राशनम् पञ्चमसप्तमनवममासेषुस्त्रीणाम् द्वितीयाचतृतीयाचपञ्चमीसप्तमीतथा ।

त्रयोदशीचदशमीप्राशनेतिथयःशुभाः१ बुधशुक्रगुरुवाराःशुभाः रविचंद्रवारौक्वचित्

अश्विनीरोहिणीमृगपुनर्वसुपुष्योत्तरात्रयहस्तचित्रास्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवत्यःशुभाःजन्मनक्षअत्रमशुभमितिकेचित्

भद्रावैधृतिव्यतीपातगंडातिगण्डवज्रशूलपरिघावर्ज्याः विष्णुशिवचन्द्रार्कदिक्पालभूमिदिशाब्राह्मणान्‌संपूज्य मात्रुत्सङ्गतस्य

शिशोःकांचनेकांस्येवापात्रेस्थितंदधिमधुघृतमिश्रंपायसंसुवर्णयुतहस्तेनसमन्त्रंप्राशयेत्

सूर्यावलोकनादीन्यन्नप्राशनान्तानिअन्नप्राशनकाले

शिष्टाःसहैवानुतिष्ठन्तिएतेषांसहप्रयोगंसंकल्पादिकंकौस्तुभादौज्ञातव्यम्

अथान्नप्राशनान्तेकर्तव्यम् अग्रतोऽथपरिन्यस्यशिल्पवस्तुनिसर्वशः ।

शस्त्राणिचैव वस्त्राणिततःपश्येत्तुलक्षणम् १ प्रथमंयत्स्पृशेद्बालःपुस्तकादिस्वयंतदा ।

जीविकातस्यबालस्यतेनैवसुभविष्यति २

अन्नप्राशनान्तसंस्कारेषुमलमासगुरुशुक्रास्तादिदोषोनास्तिइत्युक्तंतच्छद्धकालेष्वसंभवेज्ञेयम् तेनषष्ठादिमासे

अस्तादिदोषसत्वेऽष्टमादिमासेकार्यम् इतिसूर्यावलोकननिष्क्रमणभूम्युपवेशना प्राशनानि ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP