संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
रजस्वलायाःप्रथमदिननिर्णयः

धर्मसिंधु - रजस्वलायाःप्रथमदिननिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


रजस्वलायाःप्रथमदिननिर्णयस्तुरात्रेःपूर्वभागद्वयेपूर्वदिनंप्रथमम् तृतीयेभागेरजोदर्शने

उत्तरंदिनंप्रथमंयद्वार्धरात्रात्पूर्वंपूर्वदिनंप्रथमम्अर्धरात्रादूर्ध्वं उत्तरदिनंप्रथमं एवंजननमरणाशौ चेपि

ज्ञेयम् यस्याःप्रायेणमासेरजोदर्शनंतस्याःसप्तदशदिनपर्यन्तंपुनारजोदर्शनेस्नानाच्छुद्धिः

अष्टादशाहेएकरात्रमशुचित्वंएकोनविंशेद्विरात्रंविंशतिप्रभृतित्रिरात्रमयस्याःप्रायःपक्षेपक्षेरजोदर्शनंतस्याः

दशदिनपर्यन्तंस्नानाच्छुद्धिःएकादशाहेरजोदृष्टौएकाहः द्वादशेद्विरात्रंऊर्ध्वंत्रिरात्रम्रोगेणयद्रजःस्त्रीणामन्वहंप्रतिवर्ततेतत्रनास्पृश्यत्वं

किंतुरजोनिवृत्तिपर्यन्तंपाकदैवपित्र्यकर्मानधिकारमात्रम् रोगजेवर्तमानेपिमासजंरजोनिर्यात्येवतत्रसावधानासतीत्रिरात्रमशुचिर्भवेत्

यत्तुगर्भिण्याःप्राक्प्रसवात्रोगजंरजोदर्शनंतत्रत्रिदिनमेवऽशौचम् प्रसूतिकायाःकिंचिदूनमासात्पूर्वंरजोनिवृत्तौस्नानमात्रम् पूर्णेमासेत्रिरात्रम्

उच्छिष्टास्त्रीयदिरजस्वलाभवतितदाशुद्ध्यन्तेत्र्यहमधरोच्छिष्टत्वेकाहमुपवासःअविज्ञातरजोदोषायदिगृहेव्यवहरतितदातयास्पृष्टं

गोरसमृद्भाण्डादिकंजलादिकंचनत्याज्यम् सूतकवज्ज्ञानकालमारभ्यैवदोषात् अशुचित्वंतुज्ञानदिनमारभ्यत्रिदिनमितिकेचित्

अन्येतुद्वितीयादिदिनेरजसिज्ञातेसूतकवच्छेषदिनैरेव शुद्धिरित्याहुः ।



N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP