संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथपुंसवनादिसंस्काराः

धर्मसिंधु - अथपुंसवनादिसंस्काराः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपुंसवनादिसंस्काराः तत्रपुंसवनंव्यक्तेगर्भेद्वितीयेचतुर्थेषष्ठेऽष्टमे वामासे

सीमन्तेनसवाकार्यम् शुक्लपञ्चमीमारभ्यकृष्णपञ्चमीपर्यन्तेचतुर्थीनवमिचतुर्दशीपञ्चदशीवर्जितेतिथौसूर्यभौमगुरुवारेषुप्रशस्तम्

क्वचिच्चन्द्रबुधशुक्रवाराउक्ताः नक्षत्राणितुपुन्नामकानिप्रशस्तानि तानिचपुष्पश्रवनहस्तपुनर्चसुमृगाभिजित्मूलानुराधाऽश्विनीत्येतानि

अत्रपुष्योमुख्यः तदभावेश्रवनस्तदभावेहस्तादीनि अयमेवानवलोभनस्यापिकालः पुंसवनेनसहकरणीयत्व विधानात्

पुंसवनानवलोभनेप्रतिगर्भकार्ये गर्भसंस्कारत्वात् गर्भाधानसीमन्तोन्नयनेतुस्त्रीसंस्कारत्वात्प्रतिगर्भनावर्तेते

किंतुप्रथमगर्भे एवकार्ये प्रथमगर्भेलोपेतु प्रतिगर्भंतयोर्लोपप्रायश्चित्तमावश्यकम्

नचप्रथमापत्येतयोःप्रायश्चित्तेनद्वितीयादिगर्भाणांसंस्कारसिद्धिर्भवति प्रायश्चित्तेनहिप्रत्यवायपरिहारमात्रं

नत्वपूर्वाख्यातिशयोत्पादनम् तत्तुसंस्कारविधिनैवेतियुक्तंप्रतिगर्भप्रायश्चित्तम्

पुंसवनानवलोभनयोस्तुप्रथमगर्भेऽनुष्ठानेपिप्रतिगर्भंतयोर्लोपेप्रायश्चित्तम् तच्चपादकृछंरप्रतिसंस्कारंकार्यम्

बुद्धिकृतलोपेद्विगुणम् पुंसवने पतिःकर्तातदभावेदेवरादिः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP