संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
नमनः

धर्मसिंधु - नमनः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


श्रीपाण्डुरङ्गकमलङ्ककलानिधानकान्ताननं यदबुधानमनं मुधा न ।

श्रीवत्सकौस्तुभरमोल्लसितोरसं तं वन्दे पदाब्जभृतनन्ददुदारसन्तम्‍ १

भीमाप्रियं सुकरुणार्णवमाशुतोषं दीनेष्टपोषमघसंहतिसिन्धुशोषम्‍ ।

श्रीरुक्मिणीमतिमुषं पुरुषं परं तं वन्दे दुरन्तचरितं ह्रदि संचरत्‍नम्‍ २

वन्देप्रतिघ्नन्तमघानि शङ्करं धत्तां स मे मूर्ध्नि दिवानिशं करम्‍ ।

शिवां च विघ्नेशमथो पितामहं सरस्वतीमाशु भजेऽपि तामहम्‍ ३

श्रीलक्ष्मी गरुडं सहस्त्रशिरसं प्रद्युम्नमीशं कपि

श्रीसूर्यं विधुभौमविद्‌गुरुकविच्छायासुतान्षण्मुखम्‍ ।

इन्द्राद्यान्विबुधान्‍ गुरुश्च जननी तातं त्वनन्ताभिधं

नत्वार्यान्वितनोमि माधवमुखान्‍ धर्माब्धिसारं मितम्‍ ४

दृष्ट्वा पूर्वनिबन्धान्‍ प्राच्यांश्च नवांश्च तेषु सिद्धार्थान्‍ ।

प्रायेण मूलाचनान्युज्झित्य लिखामि बालबोधाय ५

उक्त्वा धर्माब्धिरारेस्मिनिर्णयं कालगोचरम्‍ ।

परिच्छेदे प्रथमजे द्वितीये च यथा क्रमम्‍ ६

अथ गर्भादिसंस्कारान्धर्मान्गृह्यादिसंमतान्‍

वक्ष्ये संक्षेपतः संतोऽनुगृह्यन्तु दया लवः ७

काशीनाथभिधेनात्रनन्तोपाध्यायसूनुना ।

निर्णीयते यदेतत्तुशोधनीयं मनीषिभिः ८

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP