संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथाशौचेकर्तव्यनिर्णयः

धर्मसिंधु - अथाशौचेकर्तव्यनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाशौचेकर्तव्यनिर्णयः । सूतकेमृतकेकुर्यात्प्राणायामममन्त्रकम् ।

तथामार्जनमन्त्रांश्चमनसोच्चार्यमार्जयेत् १ गायत्रींसम्यगुच्चार्यसूर्यायार्घ्यंनिवेदयेत् ।

उपस्थानंनैवकार्यमार्जनंतुकृताकृतम् २ सूर्यध्यायन्नमस्कुर्यात् गायत्रीजपोनकार्यः

अर्घ्यान्तामानसीसंध्येत्युक्तेःकेचिन्मनसादशगायत्रीजपःकार्यइत्याहुः वैश्वदेवब्रह्मयज्ञयज्ञादयःपञ्चमहायज्ञानकार्याः

वेदाभ्यासोनकार्यः औपासानहोमपिण्डपितृयज्ञावसगोत्रेणकारयेत् केचिच्छ्रौतकर्मणि

सद्यःशुद्ध्युक्तेरग्निहोत्रहोमःस्नात्वाचम्यस्वयंकार्यइत्याहुः अपरेतु

सर्वस्याप्याशौचापवादस्यानन्यगतिकत्वात्सतिब्राह्मणेब्राह्मणद्बारैवकार्यः ब्राह्मणाभावे स्वयंकार्यइत्याहुः

स्थालीपाकोनकार्यः आशौचान्तेकार्यः सर्वथालोपप्रसक्तौ स्थालीपाकोपिब्राह्मणद्वाराकार्यः

अन्वाधानोत्तरंसूतकप्राप्तौब्राह्मणद्वाराश्रौतेष्टिस्थालीपाकौ होमादौत्यागः स्नात्वास्वयंकार्यः

दर्शादिश्राद्धस्यलोपएव प्रतिसांवत्सरिक्श्राद्धमाशौचान्तेएकादशाहेकार्यम् तत्रासंभवेदर्शव्यतीपातादिपर्वणि

एवंपत्न्यामृतुमत्यामपिपिण्डयज्ञदर्शश्राद्धेकार्ये अन्वाधानोत्तरंरजोदोषेइष्टिस्थालीपाकौकार्यौ

अन्यथाकालान्तरे दानप्रतिग्रहाध्ययनानिवर्ज्यानि आशौचेन्यस्यान्नंनाश्नीयात्

पितृयज्ञस्थालीपाकश्रवणाकर्मादिसंस्थानांप्रथमारम्भोब्राह्मणद्वाराप्याशौचयोर्नभवति

प्रथमारम्भोत्तरंश्रवणाकर्मादिकंविप्रद्वाराऽऽशौचेपिपत्न्यार्तवेपिकार्यम् आग्रयणंतुन भवति

अग्निसमारोपप्रत्यवरोहौआशौचेनभवतः

तेनसमारोपोत्तरमाशौचेतैत्तिरीयाणांत्रिदिनंहोमलोपेबह्वृचादीनांद्बादशदिनंहोमलोपेग्निनाशादाशौचान्तेश्रौतस्मार्तयोः

पुनराधानमेव समारोपप्रत्यवरोहयोरन्यकर्तृकत्वाभावात् अग्‌न्यनुगमेप्रायश्चित्तपूर्वकपुनरुत्पत्तिरन्यद्वाराभवति

भोजनकालेआशौचप्राप्तौमुखस्थंग्राअसंत्यक्त्वास्नायात् तदग्रासभक्षणेएकोपवासः सर्वान्नभक्षणे त्रिरात्रोपवासः

सूतकेमृतकेचैवनदोषोराहुदर्शनइत्युक्तेर्ग्रहणेस्नात्वाश्राद्धदानजपादिकमाशौचेपि कार्यम् एवंसंक्रान्तिस्नानदानादिकमपि

संकटेनान्दीश्राद्धोत्तरंमौञ्जीविवाहयोर्नाशौचम् संकटेमधुपर्कोत्तरमृत्विजांनाशौचम् यजमानस्यदीक्षणीयोत्तरं

प्रागवभृथान्नाशौचम् अवभृथमाशौचोत्तरंकार्यम् व्रतेषुनाशौचमित्युक्तेरनन्तव्रतादिकमन्यैःकारयेत्

प्रारब्धान्नसत्रस्यान्नदानादिषुनाशोचम् पूर्वसंकल्पितान्नेषुनदोषःपरिकिर्तितः ।

उदकदुग्धदधिघृतलवणफलमूलभर्जिताद्यन्नानांसूतकिगृहस्थितानांस्वयंग्रहणेदोषाभावःसूतकिहस्ताचुनग्राह्यम्

केचित्तण्डुलादिकमपक्वमन्नंग्राह्यमाहुः इतिसंक्षेपेणनिर्णयोविशेषस्तुवक्ष्यते ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP