संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथनारायणबलिः

धर्मसिंधु - अथनारायणबलिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एवंकृतेगर्भाधानेयदिगर्भोत्पत्त्यभावोमृताप्त्यता वा तदाप्रतिबन्धकप्रेतोपद्रवनिवृत्यर्थंनारायणबलिर्नागबलिश्चकार्यः

तत्रनारायणबलिःशुक्लैकादश्यांपञ्चम्यांश्रवणेवा कालान्तरानुपलब्धेःतत्प्रयोगः परिशिष्टस्मृत्यर्थसारानुसारीकौस्तुभे

शुक्लैकादश्यांनदीतीरेदेवालयादौतिथ्यादिकिर्तनान्तेमदीयकुलाभिवृद्धिप्रतिबन्धकप्रेतस्यप्रेतत्वनिवृत्त्यर्थंनारायणबलिंकरिष्ये

विधिनास्थापितकुम्भद्वयेहेमादिप्रतिमयोर्विष्णुंवैवस्वतयमंचावाह्यपुरूषसूक्तेन यमायसोममितिचषोडशोपचारैःसंपूजयेत्

अत्रकेचित्कुम्भपञ्चकेब्रह्मविष्णुशिवयमप्रेतान्पूजयन्ति तत्पुर्वभागेरेखायांदक्षिणाग्रकुशेषुशुन्धन्तांविष्णुरूपीप्रेत

इतिदशस्थानेषुदक्षिणसंस्थमपोनिनीयमधुघ्रुततिलयुतान् दशपिण्डान्कश्यपगोत्रदेवदत्तप्रेतविष्णुर्दैवत अयंतेपिण्ड

इतिदक्षिणमुखः प्राचीनावीतीवामंजान्वाच्यपितृतीर्थेनदद्यात् गन्धादिभिरभ्यर्च्यप्रवाहणान्तंकृत्वाविसृजेत्

तस्यामेवरात्रौश्वःकरिष्यमाणश्राद्धेरक्षणःक्रियतामितिएकंत्रीन् पञ्चवाविप्रान्निमन्त्र्योपोषितोजागरंकुर्यात्

श्वोभूतेमध्याह्नेविष्णुंसंपूज्यविष्णुरूपंप्रेतंविष्णूब्रह्मशिवयमप्रेतान्वोद्दिश्यैकोद्दिष्टविधिनापादक्षालनादितृप्तिप्रश्नान्तं

कृत्वारेकाकरणाद्यवनेजनान्तंतूष्णीकृत्वाविष्णवेब्रह्मणेशिवायसपरिवारयमायेतिचतुरःपिण्डान्नाममन्त्रैर्दत्त्वाविष्णुरूपंप्रेतंध्यायन

काश्यपगोत्रदेवदत्तविष्णुरूपप्रेत अयंतेपिण्ड इतिपञ्चमंपिण्डंदत्त्वाअर्चनादिप्रवाहणान्तेआचान्तान्

दक्षिणादिभिःसंतोष्यतेष्वेकस्मैगुणवतेप्रेतबुद्ध्यावस्त्राभरणादिदत्त्वाविप्रानवदेत् भवन्तःप्रेतायतिलोदकांजलिदानंकुर्वन्त्विति

तेचपवित्रप्राणयःकुशतिलतुलसीयुततिलांजलिप्रेतायकाश्यपगोत्रायविष्णुरूपिणेअयंतिलांजलिरितिदद्युः विप्रान्वाचयेत्

अनेननारायणवलिकर्मणाभगवानविष्णुरिमंदेवदत्तंप्रेतंशुद्धमपापमर्हंकरोत्वितिविसृज्यस्नात्वाभुंजीतेति

सिन्धौतुकुम्भपञ्चकेविष्णुब्रह्मशिवयमप्रेतेतिपञ्चकंपूजयेत् स्वर्णरूप्यताम्रलोहमयाश्चत्वारः प्रेतोदर्भमयः

अग्निप्रतिष्ठाप्यश्रपितचरुंनारायणायपुरुषसूक्तेषोडशाहुतिभिर्हुत्वादशपिण्डान्ते

पुरुषसूक्ताभिमन्त्रितशंखोदकेनप्रेतंप्रत्यृचंतर्पयेत् विष्ण्वादिचतुर्भ्योबलिंदद्यात श्चोभूतेकोद्दिष्टविधिनाश्राव्दपञ्चकंकरिष्य

इतिसंकल्प्यविप्रपञ्चकेपाद्यादिपिण्डदानान्तेतर्पणादीतिविशेषउक्तः शेषंपूर्ववत् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP