संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
चित्रा नक्षत्रशान्तयः

धर्मसिंधु - चित्रा नक्षत्रशान्तयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चित्राद्येर्धेपुष्यमध्येद्विपादेपूर्वाषाढाधिष्ण्यपादेतृतीये ।

जातःपुत्रश्चोत्तराद्येविश्वेतिपितुर्भ्रातुःस्वस्यचापिप्रणाशम् १ उत्तराफल्गुन्याद्यपादेइत्यर्थःअत्रेत्थंभाति

चित्रापूर्वार्धेजातस्यगोप्रसवंकृत्वानक्षत्राधिप्रतिमांसंपूज्यअजादानंकार्यम् एवंपुष्यद्वितीयतृतीयपादयोर्जनने

गोप्रसवनक्षत्राधिपपूजागोदानानिकार्यणिउत्तराफल्गुनीप्रथमपादेजनने नक्षत्राधिपपूजां तिलपात्रदानंच

कुर्यात् एवंपूर्वाषाढातृतीयपादेजननेनक्षत्रेशपूजाकाञ्चनदानम् मघाप्रथमपादजननेमूलवत्फलम्

तत्रगोप्रसवनक्षत्रेशपूजनग्रहमखाःकार्याः मघायाआद्यघटीद्वयजनने नक्षत्रगण्डातरशान्तिरपि

रेवत्यन्त्यघटिद्वयेऽश्विन्याद्यद्वयेजननेनक्षत्रगण्डान्तशान्तिगोप्रसवग्रहमखाःकार्यः

रेवत्येश्विन्योरितरभागेषुमघान्तिमपादत्रयेचदोषविशेषानुक्तेर्नशान्त्यादिकम्

एवंविशाखाचतुर्थपादजननेशालकदेवरनाशादिदुष्टफलोक्तेर्ग्रहमखः कार्यः यत्रकाले

दुष्टफलमात्रमुक्तंशान्तिर्नोक्तातत्रग्रहमखइति कमलाकरोक्तेः एवमितरत्राप्यूहम् इतिनक्षत्रशान्तयः

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP