संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
कृच्छ्रस्वरुपः

धर्मसिंधु - कृच्छ्रस्वरुपः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रत्रिंशत्कृछ्रात्मकोऽब्दःकृछ्रस्तुद्वादशदिनसाध्यः तथाहि

प्रथमदिनेमध्याह्नेहविष्यद्यैकभक्तस्यषङ्विंशतिर्ग्रासाभोक्तव्याःद्वितीयेऽहनिनक्तंद्वाविंशतिर्ग्रासाः

तृतीयेअयाचितस्यचतुर्विंशतिर्ग्रासाः चतुर्थेनिरशनम् अयंपादकृच्छ्रः कथंचित्

त्रिगुणीकृतोयंप्राजापत्यःकृच्छ्रःएकभक्तनक्तायाचितद्वयोपवासद्वयैरर्धकृच्छ्रः यद्वा

त्र्यहमयाचितंत्र्यहमुपवासइत्यर्धकृच्छ्रः एकभक्तायाचितोपवासैःकथंचितत्रिगुणैःपादोनकृच्छ्रः

येषुनवदिनेषुभोजनप्राप्तिस्तत्रग्रासनियमंत्यक्त्वा पाणिपूरान्नभोजनेअतिकृच्छ्रः

एकग्रासपर्याप्तस्यप्राणधारणपर्याप्तस्यवादुग्धस्य एकविंशतिदिनेषुभक्षणेकृच्छ्रातिकृच्छ्रः

एकदिनेसकुशोदकमिश्रपञ्चगव्याशनंएकउपवास इति द्वैरात्रिकःसांतपनकृच्छः

पञ्चगव्यकुशोदकानाममिश्राणामेकैकस्यैकैकदिनेऽशनमेकउपवासइतिसप्ताहसाध्योमहासान्तपनः

त्र्यहं मिश्रितपञ्चगव्याशनेयतिसान्तपनम् तप्तानांदुग्धघृतजलानामेकैकस्यत्रिदिने पानमुपवासत्रयंचेतितप्तकृच्छ्रः

शीतानांपानेशीतकृच्छ्रः द्वादशाहोपवासेनपराककृच्छ्रः शुक्लपक्षेप्रतिपदादितिथिषुमयूराण्डसमानैकैकग्रासान्वर्धयन्पुर्णिमायां

पञ्चदशग्रासाः क्षयेचतुर्दशवृद्धौषोडशसंपद्यन्ते कृष्णपक्षे एकैकग्रासह्नासेनामायामुपवास

इतिमाससाध्यंयवमध्यसंज्ञंचान्द्रायणम् कृष्णपक्षेप्रतिपदिचतुर्दशग्रासानभुक्त्वाएकैकग्रासह्नासेन

दर्शेअनशनंशुक्ले एकैकग्रासवृद्धिरितिकृष्णादिशुक्लान्तंपिपीलिकामध्यचान्द्रायणम्

कृच्छ्रचान्द्रायणादेःत्रिकालस्नानग्रासाभिमन्त्रणादिविधियुतःप्रयोगःप्रायश्चित्तप्रक्ररणेज्ञेयः

अतिकृच्छादिलक्षणंप्रसंगादत्रोक्तम् अब्दगणनातुप्राजापत्यकृच्छ्रैरेव ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP