संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथप्रसववैकृतशान्तिः

धर्मसिंधु - अथप्रसववैकृतशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यत्रगर्भेविपर्यासोमानुषाणांगवामपि । अद्भुतानिप्रसूयन्तेतत्र देशस्यविद्रव १ मानुषामानुषाणांचगोजाश्वमृगपक्षिणाम् ।

जायन्तेजातिभेदाश्चसदन्ताविकृतास्तथा २ बहुशीर्षाअशीर्षावाबहुकर्णा अकर्णकः । एकशृङ्गाद्वित्रिशृङ्गास्तथैवत्रिचतुर्भुजाः ३

दीर्घकर्णामहाकर्णा गजकर्णाश्चमानवाः । राजश्रेष्ठकुले नाशोधनस्यचकुलस्यच ४ अष्टोत्तरसहस्त्राणिचरुंवैजुहुयाद्धृतम् ।

समिधांतुपलाशानांतर्पयेत्पुर्ववह्निजान ५ अशिराजायतेजन्तुस्तथाद्वित्रिशिरास्तथा । अत्रसूर्याद्भुतेसुर्यपूजयेज्जुहुयादपि ६

दध्याज्यमधुसंयुक्ताःसमिधस्त्वर्कसंभवाः । मृगीजनयतेसर्पान्‌मण्डूकांश्चैवमानुषान्‍ ७ अत्राद्भुतेगीष्पतयेपूजाहोमंचकारयेत् ।

औदुम्बरस्यसमिधो दधिसर्पिःसमन्विताः ८ स्त्रीगर्भपातोयमलंप्रसूयन्तेऽथवास्त्रियः । सदन्ताश्चैवजायन्तेजातमात्राहसन्तिच ९

बुधाद्भुतेबुधायात्रपूजाहोमौसमाचरेत् । संक्षेपेनयथाप्रज्ञमित्थंजननशान्तयः १० उक्ताजपाभिषेकार्थसूक्तादिबहुविस्तृतः ।

प्रयोगाः कौस्तुभादौचप्रसिद्धबहुशःपराः ११ अनेनप्रीयतांदेवोभगवानविठ्ठल प्रभुः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP