संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
श्राद्धकर्तुर्जीवन्पितृकत्वेनिर्णयः

धर्मसिंधु - श्राद्धकर्तुर्जीवन्पितृकत्वेनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवृद्धिश्राद्धकर्तुर्जीवन्पितृकत्वेनिर्णयः

जीवेत्तुयदिवर्गाद्यस्तंवर्गंतुपरित्यजेदितिन्यायेनजीवत्पितृकःस्वापत्यसंस्कारेषुमातृमातामहपार्वणयुतंनान्दीश्राद्धंकुर्यात् मातरिजीवत्यां

मातामहपार्वणकमेव मातामहेजीवंतिमातृपार्वणकमेव केवलमातृपार्वणेविश्वेदेवानकार्याः

वर्गत्रयाद्येषुमातृपितृमातामहेषुजीवत्सुनान्दीश्राद्धलोपएवसुतसंस्कारेषूचितः

द्वितीयविवाहाधानपुत्रेष्टिसोमयागादिषुस्वसंस्कारकर्मसुयेभ्यएवपितादद्यात्तेभ्योदद्यात्

तथामृतमातृमातामहकोपिजीवत्पितृकःस्वसंस्कारेपितृर्मातृपितामहीप्रपितामह्यः पितुःपितृपितामहप्रपितामहाः

पितुर्भातामहमातृपितामहमातृप्रपितामहाःइत्येवपार्वणत्रयमुद्दिश्यश्राद्धंकुर्यात् नतुस्वमातृमातामहपार्वणोद्देशः

पितरिपितामहेच जीवतिस्वसंस्कारे पितामहस्य मातृपितामहीप्रपितामह्यइत्याद्युद्देशः एवंप्रपितामहेपियोज्यम्

पितुर्मात्रादिजीवनेतत्पार्वणलोपएव तथाचयेभ्यएवपितादद्यादितिपक्षस्य वर्गाद्यजीवनेतत्पार्वणलोप इतिद्वारलोपपक्षस्यच

स्वसंस्कारस्वापत्यसंस्कारभेदेनव्यवस्थासिद्धानिन्तेतिज्ञेयम केचित्तुपक्षद्वयस्यैच्छिकोविकल्पोनतुव्यवस्थितइत्याहुः

एवंमृतपितृकस्य जीवन्मातृमातामहस्य पितृपार्वणेनैवनान्दीश्रद्धसिद्धर्ज्ञेया समावर्तनस्य माणवककर्तृत्वेपितदङ्गभूतनान्दीश्राद्धे

पितुस्तदभावेज्येष्ठभ्रात्रादेरधिकारइतिकेचित् तत्रापितापुत्रसमावर्तनेस्वपितृभ्योनान्दीश्राद्धंकुर्यात्

पिताजीवत्पितृकश्चेत्सुतसंस्कारत्वातद्वारलोपपक्षोयुक्त इतिभाति

माणवकपितुःप्रवासादिनाअसन्निधानेश्चात्रादिर्माणवकस्यपितृर्मातृपितामहीप्रपितामह्यैत्याद्युच्चार्य

श्राद्धंकुर्यात् मृतपितृकमाणवकसमावर्तनोपितृव्यश्चात्रादिरस्यमाणवकस्य मातृपितामहीत्याद्युच्चारयेत्

श्रात्रादेरभावेस्वयमेवस्वपितृभ्योदद्यात् एवंजीवत्पितृकोपिपितुरसन्निधानेश्चात्रादेरभावेपितुः

पितृभ्यःस्वमेवनान्दीमुखंकुर्यात् उपनयनेनकर्माधिकारस्यजातत्वात्

एवंविवाहेपिद्रष्टव्यम् मृतपितृकस्यचौलोपनयनादिकंपितृव्यमातुलादिःकुर्वनअस्यसंस्कार्यस्यपितृपितामहेत्याद्युचार्यश्राद्धंकुर्यात्

जीवतःपितुरसन्निधानेनकुर्वन्मातुलादिरस्यसंस्कार्यस्यपितुर्जनकादीनुद्दिश्यकुर्यान्नतुसंस्कार्यस्यमृतानपिमात्रादीनितिंसंक्षेपः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP