संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथगर्भस्त्रावहरं

धर्मसिंधु - अथगर्भस्त्रावहरं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगर्भस्त्रावहरं काञ्चनयज्ञोपवीतदानंमहार्णवे इदंस्त्रीकर्तृकम् शुभदिने

स्त्रीआचम्य देशकालौसंकीर्त्यममगर्भस्त्रावनिदानसकलदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंवायुपुराणोक्तं

सुवर्णयज्ञोपवीतदानविधिंकरिष्येइतिसंकल्प्य पलेनतदर्धेनतदर्धेनयथाशक्तिवाहैमं

यज्ञोपवीतंग्रन्थिप्रदेशेमौक्तिकयुतंकृत्वा तथैववज्रमणियुतंराजतमुत्तरीयंच कृत्वोभयंपञ्चगव्येनगायत्र्याप्रक्षाल्य

ताम्रपात्रेद्रोणमितंदधिनिक्षिप्यतन्मध्येद्रोणमितमाज्यंनिक्षिप्याज्योपरितदुभयंसंस्थाप्यभर्ताब्राह्मणोवागायत्रीमन्त्रेणगन्धादिभिःपूजयेत् ।

अष्टगुञ्जात्मकोमाषः दशमाषाःसुवर्णम् पलकुडवप्रस्थाढकद्रोणाःसुवर्णादुपूर्वपूर्वचतुर्गुणाः

दध्याज्ययोर्द्रोणपरिमाणाभावेशक्त्यनुसारिप्रमाणं ब्राह्मणद्वारा

आज्यमधुमिश्रैस्तिलैरष्टोत्तरशतम्गायत्र्याव्याह्रतिभिर्वाहोमंकारयेत् त्यागंभर्तावास्त्रीवाकुर्यात्

होमकर्तारंविप्रंवस्त्राद्यैःसंपूज्यप्राङ्‌मुखायतस्मैउदंड्‌मुखास्त्रीदानंकुर्यात् तद्यथा उपवीतंपरिमितंब्रह्मणाविधृतंपुरा ।

भवनौकास्यदानेनगर्भसंधारयेह्यहम् १ इतिमन्त्रेणविप्रस्यनामगोत्रेउच्चार्यताम्रपात्रस्थदध्याज्यसंस्थंसुपूजितंसोत्तरीयकमिदंयज्ञोपवीतं

गर्भसावनिदानदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंतुभ्यमहंसंप्रददेनमम प्रतिगृह्यताम् विप्रःप्रतिगृह्णामीत्यादि

यथाशक्तिदक्षिनांदत्त्वान्येभ्योपियथाशक्तिदक्षिणांदत्त्वाप्रति ग्रहीतुरनुव्रज्यनमस्कारक्षमापनादि

कृत्वाविप्रभोजनंसंकल्प्यकर्मेश्वरायार्पयेत् एतच्च स्त्रवद्नर्भाभवेत्सातुबालकं

हन्तियाविषैरित्युक्तेर्बालहत्याप्रायश्चित्तंकृत्वाकार्यम् अन्यत्रतु

स्वर्णधेनुदानहरिवंशश्रवनादीन्युक्त्वाघृतपूर्णताम्रकलशदानादिविधानान्युक्तानि ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP