संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५९

खण्डः २ - अध्यायः १५९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम॥
कथं कार्या नरेन्द्रस्य शान्तिं नीराजने प्रभो ॥१॥
पुष्कर उवाच॥
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे॥
विस्तीर्णं कारयेद्राजा मनोहरमाश्रयम् ॥२॥
कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम्॥
तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ॥३॥
कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम्॥
वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम ॥४॥
तोरणाद्दक्षिणे भागे तत्र कार्यं समाश्रयम्॥
देवतार्चा भवेद्यत्र तथाग्निहवन क्रिया ॥५॥
अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः॥
कार्यं भवति शुष्काणां कूटं भृगुकुलोद्वह ॥६॥
पञ्चरङ्कसूत्रेण शतग्रन्थिं मनोरमाम्॥
मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम् ॥७॥
छादयित्वा कुशैस्तां तु मुदा संछादयेत्पुनः॥
तस्याश्च लंघनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः ॥८॥
न लंघिता सा यावत्स्यात्प्रथमं राजहस्तिना॥
चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥९॥
ततः प्रभृति कर्तव्या यावत्स्वातौ रविः स्थितः॥
आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ॥१०॥
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ॥
विनायकः कुमारश्च वरुणो धनदो यमः ॥११॥
विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च॥
अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु ॥१२॥
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः॥
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥१३॥
पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा॥
ततस्तु जुहुयाद्वह्नौ पुरोधा सुसमाहितः ॥१४॥
यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकम्॥
तथा च मन्त्रहीनानां प्रणवेन महाभुज ॥१५॥
समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च॥
घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥१६।
हुत्वा च कलशान्कुर्यात्सोदकान्गन्धसंयुतान्॥
पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ॥१७॥
पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा॥
भल्लातशालिसिद्धार्था वचाकुष्ठप्रियङ्गवः ॥१८॥
तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः॥
ततः संस्नापनीयाः स्युर्मंत्रपूतैर्गजोत्तमैः ॥१९॥
तुरगांश्च महाभाग चालङ्कृत्य ततस्तु तान्॥
ततोभिषेकनागस्य तथा तत्तुरगस्य च ॥२०॥
अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा॥
तस्याभिनन्दने राज्ञो विनयः परिकीर्तितः ॥२१॥
त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम्॥
निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान् ॥२२॥
तत्रापि प्रथमं राम अभिषिच्य गजोत्तमम्॥
तस्यादौ शतपाशीं तु नरः पञ्चनखोऽपि वा ॥२३॥
अथ ह्यन्यो लंघयेत्तां राज्ञो मरणमादिशेत्॥
दुर्भिक्षं तत्र विज्ञेयं गोखरोष्ट्रैश्च लंघने ॥२४॥
लंघयेद्वामपादेन यदि तां नृपकुञ्जरः॥
राजा पुरोहितामात्यराजपुत्रहितं भवेत् ॥२५॥
राज्ञस्तु मरणं बूयादाक्रमेत्तं यदापरः॥
राज्ञोपि जयमाचष्टे लंघयेन्दक्षिणेन ताम् ॥२६॥
राजहस्तिनि निष्क्रान्ते सा त्वया स्यात्तदा भवेत्॥
निष्क्रामेयुस्ततः सर्वेः प्राङ्मुखास्तोरणैर्गजाः ॥२७॥
ततोस्त्राः सुमहाभाग ततस्तु नरसत्तम॥
ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च ॥२८॥
आश्रमे तानि संस्थाप्य पूजयेदायुधानि च॥
पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसरा कृताः ॥२९॥
दूष्यादूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः॥
सर्वेषां नृपनागानां तुरगाणां च भार्गव ॥३०॥
स्वगृहेषु ततो नेया कुञ्जरास्तुरगैः सह॥
स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् ॥३१॥
पूजयेत्सततं राम नाक्रोशेन्न च ताडयेत्॥
राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा ॥३२॥
पूजयेद्वरुणं नित्यं तथाप्सु विधिवद्द्विज॥
भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः ॥३३॥
आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः॥
वसेतामाश्रमे नित्यं सांवत्सर पुरोहितौ ॥३४॥
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः॥
दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च ॥३५॥
स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते॥
अलंकुर्याद्दिने तस्मिन्वाहनांश्च विशेषतः ॥३६॥
पूजिता राजलिङ्गाश्च कर्तव्या नरहस्तगाः॥
हस्तिनं तुरगं छत्रं खड्गं वा पञ्चदुन्दुभिम् ॥३७॥
ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमंत्रयेत्॥
अभिमन्त्र्य ततः सर्वान्कुर्यात्कुञ्जरधूर्गताम ॥३८॥
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ॥
अश्ववैद्य प्रधानश्च तथा नागभिषग्वरः ॥३९॥
ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम्॥
निष्क्रम्य तोरणे नागमभिमन्त्र्य समारुहेत् ॥४०॥
तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम्॥
बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः ॥४१॥
रत्नैरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः॥
उल्मुकानां च निचयमादीपितमनन्तरम् ॥४२॥
राजा प्रदक्षिणं कुर्यात्त्रीन्वारान्सुसमाहितः ॥४३॥
चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः॥
क्ष्वेडाकिलकिला शब्दैः सर्ववादित्रनिःस्वनैः ॥४४॥
वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम॥
एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥४५॥
जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत्॥
शान्तिर्नीराजनाख्येयं कर्तव्या वसुधाधिपैः॥
क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् ॥४६॥
धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च॥
कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर ॥४७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने नीराजनशान्तिवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥१५९॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP