संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२८

खण्डः २ - अध्यायः १२८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
एकं मन्त्रं समाचक्ष्व देव लक्ष्मीविवर्धनम्॥
प्रतिवेदं जगन्नाथ यादोगणनृपात्मज ॥१॥
पुष्कर उवाच॥
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनम्॥
अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु ॥२॥
राम उवाच॥
प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम्॥
श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर ॥३॥
पुष्कर उवाच॥
हिरण्यवर्णा हरिणीमृचः पञ्चदश द्विज॥
श्रीसूक्तं कथितं पुण्यमृग्वेदे पुष्टिवर्धनम् ॥४॥
रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋचः॥
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ४५॥
श्रायन्तीयं तथा मासं सामवेदे प्रकीर्तितम्॥
श्रियं दातुर्मयि देहि प्रोक्तमाथर्वणे तथा ॥६॥
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति॥
जुहुयाद्यश्च धर्मज्ञ हविष्येण विशेषतः ॥७॥
श्रीसूक्तेन तु पद्मानां घृताक्तानां भृगूत्तम॥
अयुतं होमयेद्यस्तु वह्नौ भक्तियुतो नरः ॥८॥
पद्महस्तद्वया लक्ष्मीस्तं नरं तूपतिष्ठति॥
दशायुतं तु पद्मानां जुहुयाद्यस्तथा जले ॥९॥
नापैति तत्कुलाल्लक्ष्मी विष्णोर्वक्षोगता यथा॥
घृताक्तानान्तु बिल्वानां हुत्वा रामायुतं तथा ॥१०॥
बहुवित्तमवाप्नोति स यावन्मनसेच्छति॥
बिल्वानां लक्षहोमेन कुले लक्ष्मीमुपाश्नुते ॥११॥
पद्मानामथ बिल्वानां कोटिहोमं समाचरेत्॥
श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम् ॥१२॥
संपूज्य देवीं वरदां यथावत्पद्मैः सितैर्वा कुसुमैस्तथान्यैः॥
क्षीरेण धूपैः परमान्नभक्ष्यैर्लक्ष्मीमवाप्नोति विधानतश्च ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने श्रीसूक्तमाहात्म्यकथनन्नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP