संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४१

खण्डः २ - अध्यायः १४१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच॥
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते॥
विजातं विकृतं वापि षड्भिर्मासैर्म्रियेत वै ॥१॥
वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः॥
अन्यत्र वसरोत्पत्तेर्नृणां चाजातिमैथुनम् ॥२॥
सर्पमूषकमार्जारमत्स्यश्वानो विवर्जिताः॥
ज्ञेया दुर्भिक्ष्यकर्तारः स्वजातिपिशिताशिनः ॥३॥
अकालजं मदं घोरं चतुष्पान्मृगपक्षिणाम्॥
अन्यजातिवदेतच्च धैन्वं श्वानं विशेषतः ॥४॥
अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि॥
विकृता वा प्रसूयन्ति परचक्रागमं वदेत् ॥५॥
त्यागो विवासनं दानं तेषां कार्यं विजानता॥
तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥६॥
मृदंगवाद्यैः पटहैः सगीतैः पूजा च कार्या त्रिदिवौकसां वै॥
धातुस्तथेज्या विधिना च कार्या देयं तथान्नं बहुगो द्विजेभ्यः ॥७॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वैकृतोपशमनवर्णनो नामैकचत्वारिंशदुत्तरशततमोऽ ध्यायः ॥१४१॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP