संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७८

खण्डः २ - अध्यायः ०७८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
बुधैराश्वसनीयाश्च बान्धवैर्मृतबान्धवाः॥
वचनैर्धर्मसंयुक्तैस्तानि चान्यानि मे शृणु ॥१॥
नित्यमस्मिन्निरालम्बे काले सततयायिनि॥
न तद्भूतं प्रपस्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥२॥
गङ्गायाः सिकताधारास्तथा वर्षति वासवे॥
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥३॥
चतुर्दश विनश्यन्ति कल्पेकल्पे सुरेश्वराः॥
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥४॥
बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च॥
विनष्टानीह कालेन मनुजेष्वथ का कथा ॥५॥
राजर्षयश्च बहवः सर्वे समुदिता गुणैः॥
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥६॥
ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे॥
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः ॥७॥
आक्रम्य सर्वं कालेन परलोकाय नीयते॥
कर्म पश्यति नो जन्तुस्तत्र का परिदेवना ॥८॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च॥
अस्मिन्दुष्परिहार्येऽर्थे नास्ति लोके सहायता ॥९॥
शोचन्तो नोपकुर्वन्ति मृतस्य हि जना यदा॥
अतो न शोचितव्यं स्यात्क्रिया कार्या सुयत्नतः ॥१०॥
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः॥
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ॥११॥
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति॥
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥१२॥
अर्वाक् सपिण्डीकरणात्प्रेतो भवति यो मृतः॥
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥१३॥
पितृलोकगतश्चान्नं श्राद्धं भुङ्क्ते सुधासमम्॥
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयत्नतः ॥१४॥
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च॥
मानुष्ये च तथाऽप्नोति श्राद्धे दत्ते स्वबान्धवैः ॥१५॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम्॥
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥१६॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः॥
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च ॥१७॥
दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान्॥
धर्ममेकं सहायार्थे कारयध्वं सदा नराः ॥१८॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरैर्यतः॥
जायावर्ज्यं हि सर्वस्य यस्या भर्ता विभिद्यते ॥१९॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम्॥
नन्वसारे त्रिलोके ऽस्मिन्धर्म कुरु मा चिरम् ॥२०॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे त्वपराह्णिकम्॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम ॥२१॥
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम्॥
वृकीवाऽरण्यमासाद्य मृत्युरादाय गच्छति ॥२२॥
न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥२३॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि॥
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥२४॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः॥
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥२५॥
आगामिनमनर्थं तु प्रतिघातशतैरपि॥
न निवारयितुं शक्तास्तत्र का परिदेवना ॥२६॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्॥
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥२७॥
अव्यक्तादीनि सर्वाणि व्यक्तमध्यानि चाप्यथ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥
देहिनोस्मिन्यथा देहं कौमारं यौवनं जरा॥
तथा जन्मान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२९॥
गृह्णातीव यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः॥
गृह्णात्येवं नवं देहं देहीकर्मनिबन्धनः ॥३०॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥३१॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च॥
नित्यः सर्वगतःस्थाणुरचलोऽयं सनातनः ॥३२॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमेव च॥
तस्मादेवं विदित्त्वैनं नानुशोचितुमर्हथ ॥३३॥
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः॥
आश्चर्यवश्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥३४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बान्धवसमाश्वासनं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP