संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५८

खण्डः २ - अध्यायः १५८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
विधिना पूजयेत्केन भद्रकालीं नराधिपः॥
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥१॥
पुष्कर उवाच॥
पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे॥
भद्रकालीगृहं कुर्याच्चित्रवस्त्रैरलंकृतम् ॥२॥
भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज॥
आश्विने शुक्लपक्षे तु अष्टम्यां प्रयतस्ततः ॥३॥
तत्रैवायुधवर्माद्यं छत्रं केतुं च पूजयेत्॥
राजलिङ्गानि सर्वाणि तथास्त्राणि च पूजयेत ॥४॥
पुष्पैर्गन्धैः फलैर्भक्ष्येर्भोज्यैश्च सुमनोहरैः॥
बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥५॥
रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः॥
एवं संपूजयेद्देवीं वरदां भक्तवत्सलाम् ॥६॥
कात्यायनीं कामगमां वररूपां वरप्रदाम्॥
पूजितां सर्वकामैश्च सा युङ्क्ते वसुधाधिपम् ॥७॥
एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन॥
प्राप्नोति सिद्धिं परमां महेशो जनस्तथान्योऽपि हि वित्तशक्त्या ॥८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भद्रकालीपूजा नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ॥१५८॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP