संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९८

खण्डः २ - अध्यायः ०९८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
काम्यानि त्वं समाचक्ष्व स्नानान्यन्यानि देवज॥
केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ॥१॥
पुष्कर उवाच॥
पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत्॥
सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ॥२॥
अकालमूलाः कलशाः कार्याः सर्वेषु भार्गव॥
पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ॥३॥
नक्षत्रदेवतानां च नक्षत्रस्य तथैव च॥
सर्वगस्याप्रमेयस्य वासुदेवस्य चाप्यथा ॥४॥
येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः॥
काम्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत्॥
मन्त्रयेत्स्नानकलशं मन्त्रेणानेन भार्गव ॥५॥
मन्त्रः-
आपः सोमाद्याः संबभूवुः पवित्राग्निः पावनः सोमसूर्यसंस्थिता वायुना नष्टदोषाश्च यो नित्य मच्छ्रेयसे सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्नवपुष्टिर्मह्यं भूयासं सर्वशिरः॥
साधुस्वाहेति सूर्यः संस्थिता वायुनामाष्टदोषा॥'
कर्मैतदुक्तं रिपुनाशकारि साधारणं स्नानमिदं पवित्रम्॥
अतः परं ते कथयामि राम स्नानानि काम्यानि सुखप्रदानि ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP