संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०३

खण्डः २ - अध्यायः १०३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
चन्द्रमंडलवृद्धौ तु तथा चैवोत्तरायणे॥
शुभे दिवसनक्षत्रे मुहूर्ते च तथा शुभे ॥१॥
तिष्याश्विनगते चन्द्रे हस्तश्रवणगेऽपि च॥
प्राचीं वाप्यथवोदीचीं निष्क्रम्य नगराद्दिशम् ॥२॥
वास्तुविद्याविनिर्दिष्टे भूमिभागे मनोहरे॥
अष्टहस्तं शुभं कुर्याच्चतुरस्रं च मण्डलम् ॥३॥
बल्यर्थमपरं कुर्याद्वह्निवेद्यर्थमेव च॥
गोमये नोपलिप्ते तु सुधालेखासमन्विते ॥४॥
ध्वजातपत्रव्यजनमाल्यदामकुशाक्षतैः॥
लाजागन्धादिभिर्मुख्यैर्मङ्गल्यैस्तं समर्चयेत् ॥५॥
लाजालाजोपकरणैस्तथैव च विभूषयेत्॥
ततः प्रस्रवणेभ्यस्तु चतुर्भ्यस्तु घटान्नवान् ॥६॥
प्रत्येकं कल्पयेद्विद्वान्कल्पिते मण्डलद्वये॥
सूक्तिष्वथ महाभाग बीजमात्रसमन्वितान् ॥७॥
ततस्तु कल्पयेत्कुम्भान्सप्तमुख्यान्नदीजलैः॥
सर्वौषधियुतः कार्यः कुम्भ एको द्विजन्मना ॥८॥
सर्वबीजयुतो धान्यरत्नोपेतस्तथा परः॥
तथा चैवापरं युक्तं कार्यं वृक्षाग्रपल्लवैः ॥९॥
पुष्पैश्चैवापरं युक्तं फलैश्चैवापरं तथा॥
सर्वगन्धयुतं चान्यं सर्वानेव समर्चयेत् ॥१०॥
पूर्वमन्त्रेण च तथा सर्वानेवाभिमन्त्रयेत्॥
ततो भद्रासनं दत्त्वा तत्र चर्मास्तरेद् बुधः ॥११॥
विप्रस्य स्नातुकामस्य सौरमार्षभकं शुभम्॥
क्षत्त्रियस्य तथा सैंहं वैयाघ्रं च तथा विशः ॥१२॥
द्वीपिचर्म च वैश्यस्य स्नाप्यस्तत्रोपवेशयेत्॥
प्रशस्तलक्षणां भार्यां वामभागे तथैव च ॥१३॥
उपोषितः शिरः स्नातः सिद्धार्थैः कङ्कतं विना॥
स्नापयेद्ब्राह्मणो विद्वान्बहुभिर्ब्राह्मणैः सह ॥१४॥
शङ्खपुण्याहघोषेण वीणावेणुरवेण च॥
जयशब्देन महता बन्दिनां निस्वनेन च ॥१५॥
सौवर्णं च शतच्छिद्रं पात्रं शिरसि धारयेत्॥
तत्र दद्याद्घटैस्तोयं क्रमेणानेन शास्त्रवित् ॥१६॥
या औषधय इत्येष मन्त्रः स्यादौषधीघटे॥
आब्रह्मन् ब्रह्मणेत्येष बीजकुम्भे प्रकीर्तितः ॥१७॥
आशुः शिशान इति च तथा रत्नघटे भवेत्॥
मन्त्रः पुष्पवतीत्येष पुष्पकुम्भे प्रकीर्तितः ॥१८॥
एष एव तथा मन्त्रः फलकुम्भे प्रकीर्तितः॥
गन्धद्वारेण च तथा गन्धकुम्भे विधीयते ॥१९॥
एवं स्नातः परीधाय सुशुक्ले वाससी शुभे॥
मङ्गल्यानि स्पृशेद्राम संपश्येद्वदनं घृते ॥२०॥
विमले च तथादर्शे ततः संपूजयेद्धरिम्॥
वैष्णवांश्च तथा मन्त्राञ्जुहुयाज्जातवेदसि ॥२१॥
ततस्तूत्तरदिग्भागे वह्निं तस्योपकल्पयेत॥
भद्रासनं शुभे देशे युक्तं पूर्वोक्तचर्मणा ॥२२॥
श्वेतानुलेपनः स्रग्वी मङ्गल्याभरणस्तथा॥
निविशेतासने तस्मिन्सभार्यो भृगुनन्दन ॥२३॥
गन्धद्वारेतिमन्त्रेण तस्य रोचनया ततः॥
कण्ठे मूर्ध्नि ततः कुर्यात्तिलकं ब्राह्मणः स्वयम् ॥२४॥
येन देवा ज्योतिषेति दर्भार्ग्रैर्ब्राह्मणस्ततः॥
पादतस्तु प्रभृत्येनं सर्वाङ्गेषु प्रमार्जयेत् ॥२५॥
गुरवे दक्षिणां दद्याद्ब्राह्मणेभ्यश्च शक्तितः॥
गन्धरत्नाज्यमाल्यानि कनकं रजतं तथा ॥२६॥
शतच्छिद्रं च तत्पात्रं गुरवे विनिवेदयेत्॥
मङ्गलालम्भनं कृत्वा गतपापो द्विजाशिषा ॥२७॥
शङ्खपुण्याहघोषेण प्रविशेच्च गृहं स्वकम्॥
विनापि भार्यया राम स्नानं कार्यमिदं तथा ॥२८॥
सप्तरात्रमिदं स्नानं सर्वकल्मषनाशनम्॥
मधु मांसं तथा क्षौद्रं मैथुनं च विवर्जयेत् ॥२९॥
अलक्ष्मीशमनं पुण्यं रक्षोघ्नं बुद्धिवर्धनम्॥
आरोग्यदं दीप्तिकरं यशस्यं शत्रुसूदनम् ॥३०॥
मङ्गल्यं पापशमनं कलिदुस्वप्ननाशनम्॥
बृहस्पतिरिदं चक्रे स्नानं मघवतः स्वयम्॥
ब्रह्महत्याभिभूतस्य वृत्ते वृत्रवधे पुरा ॥३१॥
ततोऽस्य दत्तः स्वयमेव वज्रिणा वरो नृलोकेपि वरोऽस्य कारकः॥
कामानभीष्टान्समवाप्य पूजितो महेन्द्रलोकं स सुखी प्रयास्यति ॥३२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बार्हस्पत्यस्नानवर्णनन्नाम त्र्युत्तरशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : December 13, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP