संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५६

खण्डः २ - अध्यायः ०५६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥श्रीपरशुराम उवाच॥
भगवञ्च्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम्॥
तन्ममाचक्ष्व देवेश तत्र मे संशयो महान् ॥३॥
पुष्कर उवाच॥
रक्षन्बलं महाभाग लङ्घयेज्ज्वरितं नरम्॥
सविश्वं लाजमण्डं तु लंघितं तत्तु भोजयेत् ॥२॥
मुस्तपर्पटकोशीरचन्दनोद्दीप्यनागरैः॥
घृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये ॥३॥
षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम्॥
स्नेहयेत्पाकदोषं च ततस्तं च विरेचयेत् ॥४॥
जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः॥
तद्विधाश्चतुरः श्रेष्ठाः यवानां विकृतिस्तथा ॥५॥
मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः॥
आढकी च फलं मूले यूषार्थं ज्वरिणां हितम् ॥६॥
कृष्णशुक्लकवन्तीर्कतित्तिरैणकपिञ्जलाः॥
लावाद्या जाङ्गलश्रेष्ठाः ज्वरिणां तद्विधाश्च ये ॥७॥
पटोलं सफलं निम्बं कर्कोटककटिल्लकम्॥
शाकं पर्पटकं चाद्यादम्लार्थे दाडिमं हितम् ॥८॥
अयोगे वमनं शस्तमूर्द्धगे च विरेचनम्॥
रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम् ॥९॥
लाजा सिञ्चति कामं तु यवगोधूमशालयः॥
मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः ॥१०॥
हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः॥
सक्षौद्रशर्करोपेतास्तथा वृषरसो हितः ॥११॥
अतीसारे पुराणानां शालीनां भक्षणं हितम्॥
अनभिष्यदि वा चान्यद्रौद्रवत्सकसंयुतम् ॥१२॥
मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा॥
वाट्यक्षीरेण चाश्नीयाद्वस्तुकं घृतसाधितम् ॥१३॥
कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः॥
हिता जठरिणां भोज्ये यवगोधूमशालयः ॥१४॥
मुद्गाः कुलत्थाः कौलानि जाङ्गला मृगपक्षिणः॥
पटोलनिम्बधान्यास्तु शुष्कमूलकसैन्धवैः ॥१५॥
मातुलुङ्गरसा जातिहिङ्गुवृक्षाम्लवेतसैः॥
आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत् ॥१६॥
कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम्॥
मसूरमुद्गौ यूषार्थे भोज्ये जीर्णाश्च शालयः ॥१७॥
निम्बपर्पटकौ शाकौ छागलानां तथा रसः॥
विडङ्गं मरिचं शुण्ठी कुष्ठं रोध्रं ससर्जिकम् ॥१८॥
मनःशिलैः कृतो लेपः कुष्ठहा मूत्रपेषितः॥
अपूपसक्तुकुल्माषवाज्याद्या मेहिनां हिताः ॥१९॥
यवान्नविकृतिर्मुद्गाः कुलत्थाजीर्णशालयः॥
तिक्तरूक्षाणि शाकानि तिक्तानि हरितानि च ॥२०॥
तिलानि तिलशिग्रुर्वा बिभीतेङ्गुदजानि तु॥
अनभिष्यन्दि यच्चान्यद्भोजने तत्प्रशस्यते ॥२१॥
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितं च यत्॥
जाङ्गालस्वरसः प्रोक्तो भोजने राजयक्ष्मिणाम् ॥२२॥
कुलत्थमुद्गकालाबुशुष्कमूलकजाङ्गलैः॥
यूषैर्वा वाष्किरैः स्निग्धैर्दधिदाडिमसाधितैः ॥२३॥
मातुलुङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः॥
यवगोधूमशाल्यन्नैर्भोजयेच्छावसं परम् ॥२४॥
दशमूलफलारास्नाकुलत्थैरुपसाधितैः॥
पयोव्यूषरसक्वाथः श्वासहिक्कानिवारणः ॥२५॥
शुष्कमूलककौलत्थमौद्गजांगलजै रसैः॥
यवगोधूमशाल्यन्नं जीर्णाशोंऽशं समाचरेत् ॥२६॥
जीर्ण पक्वरसं शीधुमार्द्वीकाँस्त्वथ वा पिबेत्॥
शोथवान्सगुडां पथ्यां खादेद्वा गुडलावनम् ॥२७॥
चित्रं विचित्रकं चोभौ ग्रहणीरोगनाशनौ॥
पुराणयवगोधूमशालयो जाङ्गलं रसम् ॥२८॥
मुद्गामलकखर्जूरमृद्वीकाबदराणि च॥
मधुसर्पिःपयस्तक्रं निम्बपर्पटकौ वृषम् ॥२९॥
तक्रवृद्ध्यानुशस्यन्ते सततं वातरोगिणाम्॥
हृद्रोगिणे प्रदातव्यं प्रयत्नेन विरेचनम् ॥३०॥
पिप्पलीनां प्रयोगश्च प्रमृते धर्मिणस्तथा॥
चकार नाडी शीधूनि युक्ता च शिशिराम्भसा ॥३१॥
युक्तसौवर्चलाजाक्षिमथ शस्तं मदात्यये॥
सक्षौद्रपयसा लाक्षां पिबेत क्षतवान्नरः ॥३२॥
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत्॥
शालयो भोजने शक्ता नीवारकलमादयः ॥३३॥
यवान्नविकृतिर्मांसं शाकं सौवर्चलं सुधीः॥
पथ्यं तथैव तासां च मण्डं तक्रं च वारुणी ॥३४॥
मुस्ताभ्यासस्तथा लेपः चित्रकेण हरिद्रया॥
यवान्नविकृतिः शालिर्वास्तुकी च सुवर्चलम् ॥३५॥
त्रपुसी चारुगोधूमाः क्षीरेक्षुघृतसंयुताः॥
मूत्रकृच्छे च शस्ताः स्युः पाने मण्डसुरादयः ॥३६॥
लाजा सक्तु तथा क्षौद्रं शाल्यं मांसपरूषकम्॥
वृन्ताकालाबुशिखिनश्छर्दिघ्नाः पानकानि च ॥३७॥
शाल्यन्नं तोयपयसी केवलोष्णश्रितेऽपि वा॥
तृष्णाघ्ना मुस्तगुडयोर्गुलिका वा मुखे धृता ॥३८॥
यवान्नविकृतिर्यूषं शुष्कमूलकजं तथा॥
शाकं पटोलवेत्राश्रमूरुस्तम्भविनाशनम् ॥३९॥
मुक्ताढकमसूराणामतीरैर्जाङ्गलैस्तथा॥
ससैन्धवघृतद्राक्षाशुण्ठ्यामलकोलजैः ॥४०॥
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत्॥
विसर्पं ससिताक्षौद्रमृद्वीकादाडिमोदरः ॥४१॥
रक्तषष्टिकगोधूमयवमुद्गादिवल्लघु॥
काचमाची च वेत्राग्रं वास्तुकं च सुवर्चला ॥४२॥
वातशोषितनाशाय तोयं शस्तं सिता मधु॥
नासारोगे च सहितं घृतदूर्वाप्रसाधितम् ॥४३॥
भृङ्गराजरसे सिद्धे तैलं धात्रीरसोऽपि वा॥
न स्यात्सर्वामयेष्विष्टं मूर्धजत्रूद्भवेष्वथ ॥४४॥
शीततोयान्वपतनं तिलानां राम भक्षणम्॥
द्विजदार्ढ्यकरं प्रोक्तं तथा पुष्टिकरं शुभम् ॥४५॥
गण्डूषस्तिलतैलेन द्विजदार्ढ्यकरः परः॥
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम् ॥४६॥
धात्रीफलान्यथाज्यं च शिरोलेपनमुत्तमम्॥
शिरोरोगविनाशाय स्निग्धशीतं च भोजनम् ॥४७॥
तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम्॥
कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत् ॥४८॥
गिरिभृच्चन्दनं माल्यं मालतीकालिकास्तथा॥
संयोज्य याकृतावर्तिः क्षतचक्रहरीतुसा ॥४९॥
व्योषं त्रिफलयायुक्तं सुरूकं च रसाञ्जनम्॥
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ॥५०॥
आज्यभृष्टं शिलापिष्टरोथकाञ्जिकसैन्धवैः॥
आश्च्योतनविनाशाय सर्वरोगामयेषु च ॥५१॥
गिरिभृच्चन्दनैर्लेपो बहिर्लेपस्य शस्यते॥
नेत्रामयविघातार्थं त्रिफलां शीलयेत्सदा ॥५२॥
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः॥
शतावरे रसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥५३॥
कलविङ्कानि माषाश्च वृषौ क्षीरं घृतं तथा॥
आयुष्या त्रिफला चैव पूर्ववन्मधुकान्विता ॥५४॥
मधुकायोरजोपेता वलीपलितनाशिनी॥
वचसिद्धं घृतं राम तदा भूतविनाशनम् ॥५५॥
कण्ठे बुद्धिप्रदं चैव तथा सर्वार्थसाधकम्॥
वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम् ॥५६॥
रास्ना सहचरैर्वापि तैलं वातविकारिणाम्॥
अनभिष्यन्दि यच्चान्यत्तद्व्रणेषु प्रशस्यते ॥५७॥
पक्वस्य च तथा भेदं निम्बशीलं च रोपणे॥
तथा तस्योपचारश्च बलिकर्मार्थिशेषतः ॥५८॥
सूतिका च तथा रक्षा व्रणिनां तु सदा हिता॥
जङ्गमे विषदंशे तु दातव्यं स्थावरं विषम् ॥५९॥
स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम्॥
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ॥६०॥
वन्ध्याकार्कोटजं मूलं छागमूत्राभिभावितम्॥
नस्यं काञ्चिकसंपिष्टं विषवेगविनाशनम् ॥६१॥
बन्धनाद्दूषणं छेददाहस्रावाः प्रकीर्तिताः॥
पूर्वदष्टस्य पाने च हृदयावरण घृतम् ॥६२॥
तालनिम्बदलं केशा जीर्णचैलं यवा घृतम्॥
धूपो वृश्चिकविद्धस्य शिखिपत्रं घृतेन वा ॥६३॥
अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम्॥
वृश्चिकार्त्तस्य कृष्णा वा शिरीषफलसंयुता ॥६४॥
तिलकास्फोटयोर्दूनं गिरिकर्ण्यास्तिलस्य च॥
शर्करामधुसर्पींषि पानमाखुविषापहम् ॥६५॥
आर्कक्षीरं तिलास्तैलं पललं च गुरु समम्॥
पानाज्जयति दुर्वारमविषं शीघ्रमेव च ॥६६॥
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा॥
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ॥६७॥
चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः॥
निर्गुण्डीशाखिशैलूषलूताविषहरोऽगदः ॥६८॥
शिरोविरेचनं शस्तं गुडनागरकं द्विज॥
नस्यकर्मणि वस्तौ च तथा भृङ्गे च भार्गव ॥६९॥
तैलमेव परं विद्यात्स्नेहपाने तथा घृतम्॥
स्वेदनीयः परो वह्निः सिताम्भःस्तम्भनं परम् ॥७०॥
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा॥
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ॥७१॥
रक्तपित्ते बला रास्ना क्रमेण परमौषधम्॥
शारीरमानसाग्रं तु सहजा व्याधयो मताः ॥७२॥
शारीरज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः॥
आगन्तवोऽभिघातोत्थाः सहजाः क्षुत्तृषादयः ॥७३॥
शारीरागन्तुनाशाय सततं सूर्यवासरे॥
गुडाज्यलवणोपेतं सहिरण्यं द्विजातये ॥७४॥
दद्याच्च धूपं धर्मज्ञ प्रीणयेच्च दिवाकरम्॥
आरोग्यमेतेनाप्नोति कामाँश्च मनसेप्सितान् ॥७५॥
सततं दिवसे चान्द्रे स्नानमभ्यङ्गपूर्वकन्॥
यः प्रयच्छति विप्राय सोऽपि रोगैर्विमुच्यते ॥७६॥
शनैश्चरदिने दत्त्वा तैलं विप्रेषु शक्तितः॥
नित्यमेव महाभाग रोगनाशनमाप्नुयात् ॥७७॥
आश्विनं सकलं मासं प्रत्यहं गोरसैर्द्विजान्॥
भोजयित्वा महाभाग रोगनाशनमाप्नुयात् ॥७८॥
स्नापयित्वा तथा लिङ्गं देवदेवस्य शूलिनः॥
घृतेन पयसा चैव सर्वरोगैर्विमुच्यते ॥७९॥
गायत्र्यावाहयेद्विद्वान्दूर्वां त्रिमधुनाप्लुताम्॥
पूतश्च ब्राह्मणाशीर्भिः सर्वरोगैर्विमुच्यते ॥८०॥
यस्मिन्भे व्याधिमाप्नोति कृत्वा तस्य बलिक्रियाम्॥
भपूजाविधिना राम तस्माद्रोगाद्विमुच्यते॥८१॥
कर्तव्यमथवा स्नानं तथारोग्यविवर्धनम्॥
आरोग्यदां द्वितीयां वा प्रतिपद्वा भृगूत्तम ॥८२॥
कर्तव्यं वैष्णवं वापि व्रतमारोग्यकारकम्॥
मानसानां निजानां च तथा चैवाविपत्तये॥८३॥
शरणं देवदेवेशं व्रजेत मधुसूदनम्॥
सर्वगं तं जगन्नाथमजेयं पुरुषोत्तमम् ॥८४॥
स्तुवन्नामसहस्रेण व्याधीन्सर्वान्व्यपोहति॥
दोषधातुमलाधारं शरीरं प्राणिनां द्विज ॥८५॥
वातपित्तकफा दोषा धातवश्च तथा शृणु॥
भुक्तं पक्वाशयादन्नं द्विधा याति भृगूत्तम ॥८६॥
अंशेनैकेन किट्टत्वं रसतां चापरेण च॥
किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषकः ॥८७॥
नासामलं देहमलं तथा कर्णमलं च यत्॥
रसभागे रसं तत्र सम्यक्शोणिततां व्रजेत् ॥८८॥
मांसं रक्तन्ततो मेदो मेदसोस्थ्नां च सम्भवः॥
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्राम ततो रसः॥८९॥
सर्वेषामेव धातूनां सारमोजः प्रकीर्तितम्॥
देशं सात्म्यं च यां शक्तिं कालं प्रकृतिमेव च॥९०॥
ज्ञात्वा चिकित्सितं कुर्याद्भेषजस्य तथा बलम्॥
तिथिं रिक्तां दिनेशं च तथैव च कुजार्कजौ ॥९१॥
दारुणोग्राणि चर्क्षाणि वर्जयेद्भेषजे सदा॥
हरिगोद्विजचन्द्रार्कसुराग्नीन्प्रतिपूज्य च ॥९२॥
श्रुत्वा मन्त्रमिमं विद्वान्भेषजारम्भमाचरेत्॥
ब्रह्मत्र्यक्षाश्विरुद्रेन्द्रभूचन्द्रार्कनलानिलाः ॥९३॥
ऋषय ओषधिग्रामा भूतसर्गाश्च पान्तु ते॥
रसायनमिवर्षीणां देवानाममृतं यथा ॥९४॥
स्वधेवोत्तमनागानां भैषज्यमिदमश्नुते॥
वातश्लेष्मात्मको देशो बहुवृक्षो बहूदकः ॥९५॥
अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः॥
किंञ्चिद्वृक्षाधिको देशस्तथा साधारणः स्मृतः॥९६॥
जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः॥
रूक्षशीतश्चलो वातः पित्तमुष्णकटुद्रवम् ॥९७॥
स्थिराम्लस्निग्धमधुरं बलासं च प्रचक्षते॥
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ॥९८॥
समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः॥
कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ॥९९॥
कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः॥
तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः ॥१००॥
स्वभावतस्तथा कर्म ते च कुर्वन्ति भार्गव॥
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ॥१०१॥
चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तिताः॥
निदाघे वारिदा रात्रे तथा शरदि भार्गव ॥१०२॥
चयप्रकोपप्रशमास्तथा वातस्य कीर्तिताः॥
चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः ॥१०३॥
संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः॥
द्विधा तु मतभेदेन भूय एव प्रकीर्तितः ॥१०४॥
आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ॥
वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः ॥१०५॥
मेघकाले च शरदि हेमन्ते च यथाक्रमात्॥
चयप्रकोपप्रशमस्तथा पित्तस्य कीर्तितः ॥१०६॥
शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः॥
सौम्यो विसर्गस्त्वादानं चाग्नेयं परिकीर्तितम् ॥१०७॥
वर्षादीन्स्त्रीनृतून्राम चतुःपर्यायगोरसान्॥
विवर्धयेत्तथा तिक्तकषायकटुकान्क्रमात् ॥१०८॥
यथा रजन्यो वर्धन्ते बलमेवं विवर्धते॥
क्रमशोऽथ मनुष्याणां हीयमानासु हीयते ॥१०९॥
रात्रिभुक्तं दिनान्ते तु दिवसस्य तथैव च॥
आदिमध्यावसानेषु कफपित्तसमीरणाः ॥११०॥
प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः॥
प्रकोपान्तरजे काले शमस्तेषां प्रकीर्तितः ॥१११॥
अतिभोजनतो राम तथा चाभोजनेन च॥
सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः ॥११२॥
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्॥
आश्रयं पवनादीनां तथैकमवशेषयेत ॥११३॥
व्याधेर्निदानस्य तथा विपरीतमथौषधम्॥
कर्तव्यमेतदेवात्र मया सार्धं प्रकीर्तितम् ॥११४॥
नाभेरूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च॥
बलासपित्तवातानां देहे स्थानं प्रकीर्तितम् ॥११५॥
तथापि सर्वगा एते देहे वायुर्विशेषतः॥
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥११६॥
कृशोल्पकेशश्चपलो बहुवाग्विषमानलः॥
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते ॥११७॥
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः॥
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥११८॥
दृढाङ्गः स्थिरचित्तश्च सुप्रजः स्थिरमूर्धजः॥
शुक्लाम्बुदर्शौ स्वप्ने च कफप्रकृतिको नरः ॥११९॥
तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः॥
मानुषा भृगुशार्दूल वातपित्तकफाधिकाः ॥१२०॥
रूक्षशीतव्यवायाध्वगुरु कर्म प्रवर्तते॥
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ॥१२१॥
विदाहिनां तथोष्णानामुच्चैरध्वनिषेविणाम्॥
पित्तं प्रकोपमायाति भयेन च तथा द्विज ॥१२२॥
अत्यंबुपानविषमभोजिनां भुवि शायिनाम्॥
श्लेष्मा प्रकोपमायाति तथा ये चाल्पभोजनाः ॥१२३॥
वातपित्तकफोत्थानि सर्वरोगाणि देहिनाम्॥
लक्षयेल्लक्षणं विद्वाञ्शमयेत्तदनन्तरम् ॥१२४॥
अस्थिभङ्गः कषायित्वमास्ये शुष्कास्यता तथा॥
जृंभणं लोमहर्षश्च वातिकव्याधिलक्षणम् ॥१२५॥
नखनेत्रशिराणां च पीतता कटुता मुखे॥
तृष्णा दाहोऽम्लता चैव पित्तव्याधिनिदर्शनम् ॥१२६॥
आलस्यं च प्रसेकश्च गुरुता मधुरास्यता॥
उष्णाभिलाषिता चेति श्लैष्मिकं व्याधि लक्षणम् ॥१२७॥
स्निग्धोष्णमन्नं ससुखा च शय्या मनोऽनुकूलाः सुहृदः कथाश्च॥
अभ्यञ्जनं चाप्यतितैलपानं वातप्रकोपप्रशमाय दृष्टम् ॥१२८॥
सरांसि वाप्यः सरितः सुशीताश्चन्द्रांशवश्चन्दनपङ्कलेपाः॥
संसेवितेनाशु शमं प्रयाति विलासमग्र्यं मनसः प्रहर्षात् ॥१२९॥
सर्वामयार्तिप्रशमार्थमेकां त्वमोषधीं राम निबोध गुह्याम्॥
भक्तिः प्रभोर्देववरस्य विष्णोर्या सर्वकामैः पुरुषं युनक्ति ॥१३० ॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० सं० पुरुषचिकित्सानाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP