संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९६

खण्डः २ - अध्यायः ०९६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम्॥
त्वत्तः समस्तधर्मज्ञ यादोगण नृपात्मज ॥१॥
पुष्कर उवाच॥
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव॥
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥२॥
अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः॥
उज्वलैर्लक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः ॥३॥
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि॥
पत्रपूर्णैस्तथायुक्तैस्तिलैः कृष्णैर्द्विजोत्तम ॥४॥
वह्निं कुमारं शशिनं खङ्गं वरुणमेव च॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ॥५॥
पीतरक्तैस्तथा वर्णैर्घृतदीपैस्तथैव च॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ ॥६॥
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः॥
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः ॥७॥
चन्दनञ्च मयूराणां लोमानि मनुजोत्तम॥
अग्निमन्थगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ॥८॥
धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ॥९॥
कर्मैतत्सततं कृत्वा वह्न्याधानमथाप्नुयात् ॥
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च॥
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ॥१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षष्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP